________________ अभिधर्मसमुच्चयभाष्यम् (xxii) अधर्मरागादिमहापरिदाहकरत्वात् ज्वरा इव ज्वरा वेदितव्याः / तत्राधर्मरागः योऽकुशलेषु कर्मपथेष्वनुरागः / विषमलोभोऽन्यायेनाधर्मेण विषयपर्येष्टि: / मिथ्याधर्मो दुराख्यातो धर्मविनयो वेदितव्यः // (xxiii) जाति मूलकं संस्कारतरुवनं संजानयन्तीति वनसाः // (xxiv) कायसापेक्षादितया कुशलप्रयोगविबन्धनाद्विबन्धाः / कायसापेक्षतादोनि पुनः पञ्च चेतोविनिबन्धानधिकृ[Ms. 54A]त्य / / 661G. रागो विषये दृष्टौ च विप्रतिपन्न इति भावनाप्रहातव्यो दर्शनप्रहातव्यश्च यथाक्रमम् / शुभता [Ms. 54A]मात्रालंबनत्वाद्रागस्य योऽपि सत्त्वेषु' रागः सोऽपि विषयमुखेनैव विप्रतिपन्नो वेदितव्यः / एवं प्रतिकूलमात्रालंबनत्वात् प्रतिघस्य सत्त्वेष्वपि प्रवर्तमानो विषयमुखेनैव विप्रतिपन्ना वेदितव्यः / [As. P. 51] मानः सत्त्वेषु दृष्टौ च [वि] प्रतिपन्नः हीनादस्मि श्रेयानित्येवमाद्याकारप्रवृत्तत्वात्सत्वेषु विप्रतिपन्नो वेदितव्यः / सत्कायान्तग्राहमिथ्यादृष्टयो ज्ञेये विप्रतिपन्नाः समारोपापवादमुखेन यथायोगम् / शीलव्रतपरामर्शादि: दृष्टो विप्रतिपन्नः दृष्टिदोषेणैव शीलव्रतस्य शुद्धितः परामर्शनात् / विचिकित्सा प्रतिपक्षे विप्रतिपन्ना सत्येषु बुद्धिद्वैधापादनात् / [Ch. 726A] ते दुःखसमुदययोर्दशापि क्लेशा निदानं भवन्ति / तौ च तेषां पदस्थानम् / अतस्ते तन्निदानपदस्थानतो विप्रतिपन्ना इत्युच्यन्ते / निरोधे मार्गे चोत्त्राससंजननतो विप्रतिपन्नाः क्लेशवशात्संसारेऽभिरतस्य व्यवदानत: प्रपातसंज्ञात्रासात् / / विप[T. 54B]रीतकल्पनतश्च निरोधे [Ms. 54. B] मार्ग च विप्रतिपन्ना द्रष्टव्याः, तीर्थैरन्यथा परिकल्प्य तत्र [वि]प्रतिपत्तेः / / 561H (i) कामावचरो रागः पञ्चविज्ञानकायिकः सुखेन संप्रयुज्यते / मनोविज्ञानकायिकः सौमनस्येन / सर्व उपेक्षया प्रबन्धोपरतिकाले / दुःखदौर्मनस्याभ्यां तु न संप्रयुज्यते, हर्षाकारप्रवृत्तत्वात् / / (ii) प्रतिघो दुःखेन संप्रयुज्यते पञ्चविज्ञानकायिकः, षष्ठो दौर्मनस्येन, सर्व उपेक्षया पूर्ववत् सुखसौमनस्याभ्यां न संप्रयुज्यते, दैन्याकारप्रवृत्तत्वात् // (iii) मानः कामधातौ सुखेन न संप्रयुज्यते, पञ्चविज्ञानकायिकाभावात् / प्रथमद्वितीययोस्तहि ध्यानयोः कथं सुखेन संप्रयुज्यते / मनोभूमिकेन सुखेन / 1. Ch. adds मरण. पि सत्त्वेष is written above विषयत्वे which is canceled by stroke overhead. 3. Ch. & Asv (T). add दृष्टिपरामर्श for आदि. . 4. T. & Ch. °दाने. for °दानतः.