________________ सत्यविनिश्चयः कथं तत्र मनोभूमिकं सुखम् / यत्तदुच्यते प्रीतिसुखमिति, यथोक्तम्-"प्रीतिः कतमा। या परिवृत्ताश्रयस्य परिवृत्तिविज्ञानाश्रिता चित्ततुष्टि: चित्तौद्विल्यं चित्तहर्षः चित्तकल्पता सातं वेदितं वेदनागतम् / सुखं कतमत् / यत्परिवृत्ताश्रयस्यालयविज्ञानाश्रित आश्रयानुग्रहत [T. 55A] आश्रयह्लादः सातं वेदितं वेदनागतमिति / " [Ms. 55A] तदेतदुक्तं भवति / सुखा वेदना प्रथमद्वितीययोर्ध्यानयोरुत्पद्यमाना [Ch. 726B] येन चित्तचैत्तकलापेन संप्रयुज्यते तं च हर्षाकारेण प्रीणयति, आश्रयं चालयविज्ञानस्वभावं प्रस्रब्धिसुखेन ह्लादयति / अतस्तदुभयकृत्यकरत्वादुभयथैवास्या व्यवस्थानं वेदितव्यं प्रीतिः सुखं चेति / तस्मात्तया संप्रयुज्यमानो मानः सुखेन सौमनस्येन च संप्रयुज्यत इत्युच्यते / / (iv) मिथ्यादृष्टिः कामधातो दौर्मनस्येन सौमनस्येन च संप्रयुज्यते, सुकृतदुष्कृतकारिणां तद्वैफल्यदर्शनेनाधृतिहर्षोत्पादात् / सुखदुःखाभ्यां न संप्रयुज्यते, मनोभूमिकत्वात् सर्वस्या दृष्टेः / / (v) विचिकित्सा कामधातौ सौमनस्येन न संप्रयज्यते. अनिश्चितचित्तस्य नवृत्त्यमन्तरेण सौमनस्याभावात् / रूपधातौ विचिकित्सोत्तरध्यायिनामपि प्रीतिसुखं समाधिवलाधानेनानुवर्तत एवेति तत्र सुखसौमनस्याभ्यामपि संप्रयुज्यते / (vi) आवेणिकाया अप्यविद्याया एप एव नयो द्रष्टव्यः सुख]T. 55 B]सौमनस्याभ्यां संप्रयोगासंप्रयोगमारभ्य / / / (vii) 4-सर्वक्लेशा उपे[Ms. 55 B]क्षया संप्रयुज्यन्ते औदासीन्यमागम्यास्तगमनतामुपादायेति- क्लेशप्रबन्धस्य मन्दतरतमतागमनेनोपरतवेगस्योपरमणादन्तेऽवश्यमौदासीन्यमुखेनोपेक्षायाः संप्रयोगो वेदितव्यः / / (viii) रूपधातौ चतुर्विज्ञानकायिकस्तत्र घ्राणजिह्वाविज्ञानाभावात् / मानादयो मनोविज्ञानकायिका एव, परितुलनतामुखप्रवृत्ति वात् / मानस्यक देशप्रवृत्तित्वं केनचिदेवांशेनोन्नतिगमनात् / / 661 I. [Ch. 726 C, As. P. 52] कामधातौ दश दुखदर्शनप्रहातव्या इति ये तत्र तन्निदानपदस्थानतो विप्रतिपन्नाः / एवं समुदयादिषु यथायोगं विप्रतिपन्नास्तद्दर्शनप्रहातव्या इति वेदितव्याः। किं खलु ये यदालंबनास्ते तत्र 1. T. यदु for यत्तदु. 2... T. & Ch. add परिवृत्तिविज्ञानाश्रिता इति मनोविज्ञानाश्रिता, अन्यत्रासमा हितत्वात् / 3. Ms. दौर्म for सौम. 4-...(--) T. & Ch. कथं सर्वक्लेशा....संप्रयुज्यन्ते / औदासी. - 5. ... (-5) "त्तित्वात् / मानस्यैक" is illegible in Ms. The restoration is made on the basis of T. 6. एवं is illegible in Ms.