________________ सत्यविनिश्चयः कललं प्रथमं भवति कललाज्जायतेऽव॒दम् / अदाज्जायते पेशी पेशी तो जायते धनम् / / घनात्प्रशाखा जायन्ते केश लोमनखादयः / इन्द्रियाणि च रूपीणि व्यञ्जनाद्यनुपूर्वशः / / $ 60. समुदयसत्यं यतो दुःखं समुदेति / तत्पुनः कतमत् / क्लेशाः क्लेशाधिपतेयं च कर्म इति सास्रवमित्यर्थः / यद्येवं किमर्थं भगवता तृष्णव समुदयनिर्देशे निर्दिष्टा / सर्वत्रगत्वेन प्राधान्यात् / (i) तृष्णा वस्तुसवंत्रगा प्राप्ताप्राप्तसर्वात्मभावविषयवस्तुव्यापनात् / प्राप्ते प्रात्मभावे तृष्णा, अप्राप्ते पौन विकी। प्राप्तेषु विषयेषु [नन्दीरागसहगता। अप्राप्तेषु विषयेषु] [T. 50A] तत्रतत्राभिनन्दिनी [Ms. 50A] वेदितव्या। (ii) अवस्थासर्वत्रगा दुःखदुःखतादित्र्य. वस्थेषु संस्कारेष्वनुगत] त्वात् / तत्र दुःखदुःखतावस्थेषु प्राप्तेषु वियोगतृष्णा, अप्राप्तेष्वसंयोगतृष्णा। विपरिणामदुःखतावस्थेषु [Ch.722C] अवियोगतृष्णा संयोगतृष्णा च, प्राप्ताप्राप्तभेदात् / संस्कारदुःखतावस्थेषु संमोहतृष्णा, क्लेशदौष्ठुल्यप्रभावितत्वाददुःखासुखवेदनाप्रभावितत्वाच्च / प्रालयविज्ञानं विशेषेण संस्कारदुःखतावस्थं तत्र चात्मसंमोहमुखेन तृष्णा प्रवृत्ता वेदितव्या / (iii) अध्वसर्वत्र गा त्रिष्वप्यध्वस्वनुगतत्वात् / अतीते तावदध्वन्यपेक्षाकारेणानुगता, अनागते अभिनन्दनाकारेण, प्रत्युत्पन्ने अध्यवसानाकारेण / (iv) धातुसर्वत्रिका त्रैधातुकस्फरणात्कामरूपारूप्यतृष्णाभिः / (v) एषणासर्वत्रिका तया कामभव. मिथ्याब्रह्मचर्यैषणात् / कामैषणया कामधातोरपरिमुच्यमानस्तत्रैव दुःखं निवर्तयति / तथा भवैषणया रूपारूप्यधात्वोः दुखं निर्वर्तयति / मिथ्या[T. 50B] ब्रह्मचर्यषणया संसा[Ms. 50B] रादपरिमुच्यमानस्तत्र संसरतोति / (vi) प्रकारसर्वत्रिका शाश्वतोच्छेदप्रकारानुगतत्वाद्भवविभव' तृष्णाभ्याम् / / 661A. दृष्टेः पञ्चाकारो भेद:- सत्कायदृष्टिरन्तग्राहदृष्टिमिथ्यादृष्टि: दृष्टिपरामर्शः शीलव्रतपरामर्श इति / / 1. Ms. शि. 2. Ms. adds another नखः cf. SN. 101 (P.T.S. Vol. 1, P. 206), Ak. III. 19. 3. As (G). शः. 4. Ms. त्रि. 5. As (G). °गा for °त्रिका. Ms. adds स्त्यानमिद्धाप्रशान्तता. This should go to the following ____ Portion as indicated there. Vide footnote (3) p. 174. (2) 7. Ms. °द्भवतीति भव' for द्भवविभव'.