________________ अभिधर्मसमुच्चयभाष्यम् 661B. अप्रशान्तलक्षणता क्लेशानां सामान्यलक्षणं वेदितव्यम् / सा पुनः षडाकारा तद्यथा विक्षेपाप्रशान्तता विपर्यासाप्रशान्तता औद्धत्याप्रशान्तता स्त्यानमिद्धाप्रशान्तता' प्रमादाप्रशान्तताऽलज्जाप्रशान्तता च // 561 C. क्लेशानुशयश्चापहीणो भवतीति तत्पक्षस्य दौष्ठुल्यस्यासमुद्घातितत्वात् / क्लेशस्थानीयश्च धर्म आभासगतो भवति रंजनीयादिः। तत्र चायोनिशोमनस्कारः प्रत्यवस्थितो भवतीति तस्मिन्विषये शुभनिमित्ताद्युद्ग्राहको रागाद्युत्पत्त्यनुकूलः / / ____61 D. [Ch. 723A, As. p. 44] अविद्या दृष्टिविचिकित्सा ऊर्ध्वभूम्यालंबना अपि सन्ति न पुनरासां सा भूमिः साक्षादालंबनं वेदितव्यं यथा स्वभूमिः, तत्परिकल्पमुखप्रवृत्तत्वात् तु तदालंबनव्यवस्थानं वेदितव्यम् / तत्राविद्या ऊर्ध्वभूम्यालंबना या दृष्टिसंप्रयुक्ता। दृष्टिः [Ms. 51A] सत्कायदृष्टि स्थापयित्वा, [T. 51A] न हि परभूमिकान संस्कारानहमित्यभिनिविशमानो दृष्ट इति / ऊध्वंभूमिकस्य तु क्लेशस्याधोभूमिरालंबनं न भवति, ततो वीतरागत्वात् / निरोधमार्गालंबनस्य तौ नालंबनम्, लोकोत्तरेण ज्ञानेन तत्पृष्ठलब्धेन वा प्रत्यात्मवेदनीयत्वात् / तत् परिकल्पितं त्वस्यालंबनमिति वक्तव्ये तत्परिकल्पस्त्वस्यालंबनमिति- वचनम्, 'तदव्यतिरेकात्परिकल्पितस्य / / 561 E. रागः प्रतिघेन न सं[प्रयुज्यते, एकान्तविरुद्धयोरेकत्र वृत्त्ययो. गात् / विचिकित्सयापि न सं[प्रयुज्यते, न हि विचिकित्साव्यवस्थितबुद्धिरध्यवस्यतीति / शिष्टस्त्वस्य मानादिभिरविरुद्धत्वात्संप्रयोगो वेदितव्यः / / प्रतिघो* मानेन दृष्ट्या च न संप्रयुज्यते, न हि यो यत्र वस्तुनि प्रतिहतस्तेन स उन्नति गच्छति तद्वा संतीरयितुं शक्नोतीति, एवमन्यदपि योजयितव्यम् / / क्रोधादय अन्योन्यं न संप्रयुज्यन्त' इति विरुद्धा विरुद्धर्न सं[प्रयुज्यन्ते / तद्यथा रागांशिकाः प्रतिघांसिकः / अविरुद्धास्तु क्लेशवदेव संप्रयुज्यन्त इति 1. Vide footnote (1) p. 174. T. & Ch. स्त्यानाप्रशान्तता. 2. (2-)...(-2) "वक्तव्ये... बनमिति" is in bottom margin of Ms. T. adds here another तदालंबनं तत्परिकल्पितमिति. 3. Ms. य. 4. Ch. adds रागेन. 5. T. अन्यत्र for अन्यद्. 6. Ms. adds न. 7. Ms. त. 8. T. omits विरुद्धा. 9. Ms. adds न.