________________ 54 अभिधर्मसमुच्चयभाष्यम् रूपद्रव्यापरिनिष्पत्तिप्रवेशतां चोपादाय, एवं हि बुद्ध्या भिद्यमानं रूपं न किंचिद्भवतीति मत्वा रूपद्रव्यस्यापरिनिष्पत्ति प्रविशति, यतो विज्ञप्तिमात्रावतारेण धर्मनैरात्म्यप्रवेशस्यानुकूल्यं भवतीति / / 658 (i) विपुलदुःखमसंलिखितं कामावचरमनुपचितकुशलमूलानाम्, सर्वदुःखतागतियोनिप्रभावितत्वात् कामधातोरनुपचितकुशलमूलत्वेनानावृतं सर्वगतिगमनत्वाच्च यथाक्रमं तद्विपुलमसंलिखितं च वेदितव्यम् (ii) संलिखितं तदेवोत्प[Ms. 49A]नमोक्षभागीयानाम, अवश्यं परिनिर्वाण[T. 49A]नियमात् / (iii) संलिखितासंलिखितं तदेव कामावचरं दुःखं लौकिकवैराग्याव रोपितकुशलमूलानाम्, दुःखदुःखतादिसमतिक्रमनियमितत्वादनात्यन्तिकत्वाच्च यथाक्रमम् / * एवं (iv-vii) मध्या संलिखितादीनि यथायोगं योजयितव्यानि / [Ch. 722A] (viii) महासंलेखप्रत्युपस्थानमनेकसत्त्वसंतानिकदुःखापनयनप्रत्युपस्थानात् // 659. कुशलादिचित्तस्य मरणमित्यात्मस्नेहसंप्रयुक्ताच्च्युतिचित्तापवर्गावस्थामधिकृत्य वेदितव्यम् / [As. P. 43] मनोमय उपपादुकत्वेन, चित्तमात्रहेतुकत्वात् / गन्धर्वो गन्धेनार्वणात् गन्धानुसारेणोपपत्तिदेश [ग] मना दित्यर्थः / परं सप्ताहं तिष्ठत्यन्तरेण च च्यवते यधुपपत्तिप्रत्ययान् लभते / अथ न लभते सप्ताहात्परेण च्युत्वा पुनरन्तराभव एव निवर्तते / एवं यावत् ] सप्तकृत्वः ततः परेण एकदा च व्यावतते यदि तदवस्था स्याद्य त्रोपपत्तिप्रत्य[य]| बलवन्त प्रामुखीभूता भवन्ति चतुर्थध्यानलाभिनोऽर्हत्त्वाभिमानिनो भिक्षोस्तद्भूमिकान्तराभवाभिनिवृत्ती मोक्षापवादि[Ms. 49B] कमिथ्यादृष्टिप्रति लम्भान्नारकान्तराभवाभि[T. 49B]निर्वृत्तिवत् / तत्रस्थश्च कर्मोपचिनोति, पूर्वावधवशेन कुशलादिचेतनासमुदाचारात् / [Ch. 722B] सभागांश्च सत्त्वान्पश्यति यः सह पूर्व तत्कुशलमकुशलं वा चरितं भवति तैः सह वर्तमानमात्मानं स्वप्न इव संजानीते / यत्र चासावुपपन्नो तत्पूर्वकालभवाकृतिनिर्वर्तते / तत ऊर्ध्वमिन्द्रियाभिनिर्वत्तिर्यथा प्रतीत्यसमुत्पाद इति नामरूपाद्यानुपूर्व्या / यथोक्तम्-- 1. रिव is illegible in Ms. due to smudging of ink or over writing. 2. As(G). adds याऽ. 3. As(G). मध्यम° for मध्या 4. Ms. नो. 5. Ms. adds द्य. 6. Ms. न्त्य. 7. Ms. त्वा. 8. T. °स्थायामन्य° for स्था स्याद्य.