________________ सत्यविनिश्चयः 1चित्तस्य रूपं वशे वर्तते, तेन यथेष्टं परिणामात् / अतः प्रतिक्षणमन्यथाधिमोक्षे सत्यन्यथोत्पादात्क्षणिकत्वसिद्धिः। अपि खलु (vii) अन्ते विकारोपलब्धितामुपादाय, न हि प्रतिक्षणप्रकृतिविकारितामन्त रेणाकस्मिको रूपस्यान्ते विकारो युक्तः, स चोपलभ्यते। तस्मात्स्वासांतानिकप्रतिक्षणविकाराभिवृद्धिहेतुकत्वादन्त्यस्य रूपविकारस्य क्षणिक रूपमिति सिद्धम् / (viii) उत्पन्नस्य चानपेक्ष्य प्रत्य[Ms. 48A]यं स्वरसविनाशितामुपादाय, सर्वस्योत्पन्नस्य विनाशः प्रत्ययमनपेक्ष्य स्वरसेनैव भवति / अतः प्रत्ययान्तरनिरपेक्षोऽवश्यंभावी विनाश उत्पन्नमात्रस्यैव भावस्य न भवति पश्चाद्भ[T. 48 A]तीति [न] किंचिद्विशेषणमस्ति / तस्मात्सर्वेण विनाशिनोत्पन्नमात्रेण विनष्टमिति सिद्धं क्षणिकत्वम् / / 5 57A. एकप्रदेशाश्रयिभावार्थ उपादायार्थः, भूतदेशनिरपेक्षस्य पृथक् स्वतन्त्रवृत्तितासामार्थ्याभावात् / अस्ति समुदाय एकभौतिकस्तद्यथा शुष्को मृत्पिण्डः / अस्ति द्विभूतिकः स एवार्द्रः / अस्ति त्रिभूतिकः स एवोष्णः / अस्ति सर्वभूतिकः स एवार्द्र उष्णश्च मृत्पिण्डो गमनावस्थायामिति / / अस्तिं समुदाय एकोपादायरूपिकस्तद्यथा प्रभा। व्युपादायरूपिकस्तद्यथा शब्द गन्धो वायुः / त्र्युपादायरूपिकस्तद्यथा धूमः, तस्य रूपगन्धस्प्रष्टव्यविशेषप्रभावितत्वात् / स्प्रष्टव्यविशेषः पुनरत्र लघुत्वं वेदितव्यम्। चतुरुपादायरूपिकस्तद्यथा गुडपिण्डः। पञ्चोपादायरूपिकस्तद्यथा स एव सशब्दः / इत्य[न्य] त्रापि यद्यत्रोपलभ्यते भूतं भौतिकं वा [Ch. 721 C.] तत्र तदस्तीति [Ms. 48 B] वेदितव्यं नान्यत्र / 857 B. निःशरीरः [As. p. 42] परमाणु[T. 48B]रिति निःस्वभावो व्यवस्थानमात्रमित्यर्थः, अपकर्षमर्यादाभावात् / बुद्ध्या पर्यन्त भेदतस्तु परमाणुव्यवस्थानं बुद्ध्या यावानवयपापकर्षपर्यन्तः शक्यते प्रभेत्तुं तावता परमाणव्यबस्थानं क्रियते / किं पुनः कारणं यदेवं निःशरीरोऽपि परमाणुर्व्यवस्थाप्यते / पिण्डसंज्ञाविभा[व]नतामुपादाय, अवयवशो हि बुद्ध्या भिद्यमाने रूपे सर्वमेतदेकं रूपमिति पिण्डसंज्ञा विगच्छति, यतः पुद्गलनैरात्म्यप्रवेशस्यानुकूल्यं भवतीति / 1. T. adds आर्यस्य. 2. Ms. °मता for °मा. Ms. °कत्वं for °क. 4. T. & Ch. add भौतिकस्य. 5. Ms.ब्दो. 6. Ms. inserts 59. 7. is almost illegible in Ms. 8. As. (G) & T. add प्र. 9. Ms. appears a:.