SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ अभिधर्मसमुच्चयभाष्यम् नैरा त्म्यस्य भावस्तदुभयं शून्यतेत्युच्यते / (i) स्वभावशून्यता परिकल्पितं स्वभाव मु[पा]दाय, तस्य स्व[T. 47A]लक्षणेनैवाभावात् / (ii) तथाभावशून्यता परतन्त्रं स्वभावमुपादाय, तस्य येन येन प्रकारेण परिकल्प्यते तेन तेन' प्रकारेणाभावात् / प्रकृतिशून्यता परि[Ch. 721A] निष्पन्नं स्व भावमुपादाय तस्य [Ms. 47A] शून्यताप्रकृतिक त्वात् / / 655 D. अनात्मलक्षणं पुनस्तेषामेव संस्काराणामात्मवादिभिः परिकल्पितेनात्मलक्षणेनानात्मलक्षणता / / ___$56. [As. p. 41] विनाशादिलक्षणाऽनित्यता प्रसिद्धा, क्षणिकलक्षणा तु न प्रसिद्धा सर्वसंस्काराणामतः सा प्रसाधयितव्या। तत्र चित्तचैतसिकानां क्षणिकत्वं लोके प्रसिद्धमतः तेनाप्रसिद्धं रूपस्य क्षणिकत्वं प्रसाध्यते / (i)कथमिति / चित्तोपात्ततामुपादाय, क्षणिकेन हि चित्तेन काय उपात्त। (ii) केनार्थेन / चित्तैकयोगक्षेमतामुपादाय, तथाहि कायः सविज्ञानक एव समुदागच्छति विज्ञानापक्रान्त्या च पतीभवति। तस्माच्चित्तेनैकयोगक्षेमत्वात्तदिवास्य क्षणिकत्वं वेदितव्यम। (iii) किं च चित्ताश्रयतामुपादाय, चित्तस्य हि [विकारेण कायस्य विकारो दश्यते सुखदुःखरागद्वेषाद्यवस्थासू / अतः प्रतिक्षणं विकारिणश्चेतसोऽन विधानात' कायस्य क्षणिकत्वं सिद्धम् / (iv) चित्ताधिपत्यसंभूततामुपादाय, चित्तस्य हि सेन्द्रियः काय [T. 47 B] आश्रयः प्रसिद्धः, यस्य च य उत्पत्त्याश्रयो [Ms. 47 B] नासौ स्वविनाशमन्तरेण तस्याश्रयी भवन्दष्टः। तद्यथाग्न्यंकुरादीनामिन्धनबीजादिकः। तस्मात्प्रतिक्षणं चित्तस्याश्रयभावात्प्रतिक्षणमेव विनश्यतीति सिद्धम् / (v) चित्तस्याधिपत्यसंभूततामुपादाय, सर्व ह्याध्यात्मिकबाह्य रूपं चित्तस्याधिपत्येन संभवति / अतः कारणस्य क्षणिकत्वात्कार्यस्य क्षणि[Ch. 721B]कत्वं वेदितव्यम, ये हेतवो ये प्रत्ययाः रूपस्योत्पादाय तेऽप्यनित्याः, अनित्यान् खलु हेतुप्रत्ययान् प्रतीत्योत्पन्नं रूपं कुतो नित्यं भविष्यतीति सूत्रपदानुसारेण / (iv) चितवशावत्तितां चोपादाय, प्रभावविशिष्टस्य च 1. Ms. रो. 2. Ms. adds. स. 3. Ms. ना. . . स्पा 5. Ms. त. 6. Ms, adds 1777 which appears intended to be deleted. 7. Ms. न्, 8. Ms. adds त्य, 9. Ms. यि 10. Ms. भा. 11. Ms. शि.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy