________________ सत्यविनिश्चयः तानि निरुध्यन्त इति / स एव तेषां संवर्तविवर्ती वेदितव्यः / यैः कल्पस्य निर्याणं भवतीति परिसमाप्तिर्भवतीत्यर्थः / [Ms. 46A] एकोऽन्तरकल्पोऽपकर्षः विवर्तकाले एकानविंशति [त]मः / अष्टादश उत्कर्षापकर्षाः / तत ऊर्ध्वमेक उत्कर्षः पश्चिमः / / प्रायुक्षयान्मरणं कालच्युतिमधिकृत्य यावदाक्षेपमायुषः परिसमाप्तत्वात्। पुण्यक्षयादकालच्युति [मधिकृत्य] समापत्त्यास्वादनतया तदायुराक्षेपककर्मभावनोपघातात् / कर्मक्षयात्प्रबन्धच्युतिमधिकृत्य, तस्मिन्नायतने उपपद्यापरपर्यायवेदनीयकर्मण' उपयुक्तत्वादभावाद्वा तत्र भूयोऽनुत्पत्तितो वेदितव्यम् / 655B. अष्टाकारं वा दु:खमिति संबाधदुःखतादि / [Ch. 720C, As. p. 40] (i) उत्पादां [T. 46 B]शिकी अनित्यता अभूत्वा भावः, स च दुःखपक्ष्याणां संस्काराणां बाधनात्मकः / इति तामनित्यतां प्रतीत्य दुःखदुःखता प्रज्ञायते / (ii) व्ययांशिकी भूत्वाऽभावः, स च सुखपक्ष्याणां संस्काराणामनभिप्रेतः / इति तां प्रतीत्य विपरिणामदुःखता प्रज्ञायते / (iii) सदौष्ठुल्यानां संस्काराणां प्रबन्धे नोदयोऽप्यनभिप्रेतः, व्ययोऽपी ति तदुभयांशिकीमनित्यता प्रतीत्य संस्कारदुःखता प्रज्ञायते / संस्कारानि[Ms.46B]त्यतां संस्कारविपरिणामतां च संधायोक्तम्-मया' यत्किचिद्वेदितमिदमत्र दुःखस्येत्ययमदुःखासुखस्य सुखस्य च वेदितस्य दुःख वचनेऽभिसंधिर्वेदितव्यः / दुःखस्य तु वेदितस्य दुःखत्वेन प्रसिद्धत्वाल्लोके न तत्र पुनरभिसंधिरुच्यत इति / येष चानित्येषु संस्कारेषु जात्यादिकं प्रज्ञायते [तेषाम्] अनित्यत्वात् दुःखमित्यभिसंधिर्वेदितव्यः / अन्यथा मार्गोऽप्यनित्यत्वाद्दुःखं स्यादिति / / 655C. शून्यता लक्षणं नित्यादिलक्षणस्यात्मनः संस्कारेभ्योऽर्थान्तरभतस्य तेष्वभावः / तेषां च संस्काराणां नित्यकालं तद्रहितप्रकृतिकलक्षणस्य .. . 1. T. तैः 2. . The एकानविंशतितमकल्प is the प्रथम अन्तरकल्प which is अपकर्ष.. The next 18 are उत्कर्ष-cum-अपकर्ष. The last, that is, 201h. is उत्कर्ष-[Ak III. 91]. Ch. reads एकविशतितमः which means that the अपकर्ष अन्तरकल्प follows the विवर्तमानावस्था (Sphutartha, p. 335) which spreads over 20 अन्तरकल्प s. Tib. reads Tarafagfa: which is obtained by adding 18 to 1. 3. Ms. णो. 4. Ms. उभर्यां° for उत्पादाँ. 5. बन्धे is in bottom margin of Ms. 6. Ms. ती. 7. T. omits मया. 8. दुःखता. Ch. दुःखदुःख. 9. Ms. adds आदि.