________________ . अभिधर्मसमुच्चयभाष्यम् मित्यने[Ms.45 A]न संस्कार'दुःखतापरिदीपनवचनं द्वयाविनिर्मोक्षानित्येतानुबन्धयोगक्षेमार्थेन / / 654 D. (i) जातिर्दुखमित्येवमादि संवतिसत्येन दुखम्, लौकिकज्ञानविषयत्वात् / [Ch. 720 A] (ii) पञ्चोपादानस्कन्धा दुःखमिति परमार्थसत्येन दुखम् , संनिवेशतथतामुखेन लोकोत्तरज्ञानविषयत्वात् / / 555. दुःखसामान्यलक्षणे यैराकारोगिने दुःखसत्यं व्यवचारयन्ति, तद्यथाऽनित्यतो दुःखतः शून्यतोऽनात्मतश्च / / $ 55A. तत्र द्वादशविधेन लक्षणे[T. 45B]ना नित्यं दुःखसत्यं वेदि. तव्यम् / तत्पुन(i)रसल्लक्षणं यथा नास्ति सर्वदा दुःखसत्यमा [त्मा]त्मोयस्वभावमिति योऽर्थः सोऽर्थोऽनित्यं दुःखसत्यमिति / अकारस्य प्रतिषेधार्थत्वात् नित्यशब्दस्य च सर्वकालार्थत्वादिति / (ii) विनाशलक्षणं संस्काराणां भूत्वाऽभावः / (ii) विपरिणतिलक्षणं प्रबन्धासादृश्येन प्रवृत्तिः / (iv) वियोगलक्षणं तदवस्थेष्वेव वस्तुषु स्वभाववशित्वभ्रंशः क्वचित्परैः स्वीकरणमपि वेदितव्यम। (v) संनिहितलक्षणं यत्तदानीमेवानुभूयमानानित्यता / (vi) धर्मतालक्षणं यामवश्यमनुभविष्यति / (vii) क्षणलक्षण[Ms. 45B]मात्मलाभानन्तरमवश्यविनाशिता / (viii) प्रबन्धलक्षणमनादिमति संसारे आजवंजवी भावेन वृत्तिः। (ix) व्याधि जरामरणलक्षणं धातुवैषम्यं खलित्यादिकं स्थितिकालावेधोपयोगश्च / [As P. 39] (x) चित्तचित्ताकारवत्तिलक्षणं विपक्षप्रतिपक्षावस्थानावस्थितत्वम् / (xi) भोगसंपत्ति लक्षणं सर्वलौकिकसमृद्धी' नामनात्यन्तिकतया दुरन्तत्वम् / (xii) भाजन संवर्तविवर्तलक्षणं [Ch. 720B] महापृथिव्यादिनामग्न्यादिभिः पुनः पुनविनाश[त] उत्पादतश्च, अग्न्यम्बुवायुसंवर्तनीभिर्दहनक्लेद[T. 46A]नशोषणात्मिकाभिर्यथाक्रमम् / प्रथमद्वितीयतृतीयध्यानस्थानावसाने लोकसंनिवेशे संवृत्ते तवं यान्यवशिष्यन्ते द्वितीयतृतीयचतुर्थध्यानस्थानान्तराणि तानि तासां शीर्षाणि वेदितव्यानि / चतुर्थध्यानभूमिकानां तहि विमानानां केन संवर्तविवर्तः / न केनचिदवाह्येन, तैरेव तु सर्वैर्जायमानः सह तानि विमानानि निवर्तन्ते च्यवमानैः सह 1. Ms. संसार for संस्कार. 2. Ms. न. 3. Ms. णै. 4. Ms. बीज for जबी. 5. Ms. धो. 6. T. & Ch. add विपत्ति. 7. Ms. द्धि. 8. Ms. दू. 9. Ch. adds लोक.