________________ अभिधर्मसमुच्चयभाष्यम् (iv) संततिप्रभेद एकस्मिन्नप्यात्मभावे स्कन्धादीनां प्रतिलक्षणमन्यथात्वमधिकृत्य / / 549 (3). बहिर्मुखप्रभेदो यद्भूयसा कामावचर इति भूयोग्रहणं [Ch. 717B] निष्पन्दधर्महेतुकश्रुतचिन्तामयव्युदासार्थम् // समाप्त: प्रभेदः / / __ [1 (2)] 650 1. [As. P. 32] (i) लक्षणसंग्रहेण रूपस्कन्धो रूपस्कन्धेनैव संगृहीतो विस्तरेण यावद्धर्मायतनं धर्मायतने] नव / (ii) धातुसंग्रहेण सर्वाणि स्कन्धधात्वायतनान्यालयविज्ञानेन संग्रहीतानि, सर्वेषां तत्र बोजतोऽस्तित्वात् / (iii) जातिसंग्रहेण स्कन्वैः राश्याद्यर्थयुक्ता रूपादयः सर्वे संग्रहीता विलक्षणा अप्यन्योन्यं स्वलक्षणेनैकजातीयत्वात् / एवं धातुभिश्चायतनैश्चोपभोगधारणार्थयुक्ता आयद्वारार्थयुक्ताश्चक्षुरादयः संगृहीता वेदितव्याः। (iv) अवस्थासंग्रहेण स्कन्धा एकजातीया अपि सुखाद्यवस्थां नियमय्य सुखावस्थाः सुखावस्थैरेव संगृहीता न दुःखाद्य वस्थैः / [Ms. 42 A] एवं [T. 42 B] दुःखावस्थाऽदुःखासुखावस्थाश्च तदवस्थै [2] व संगृहीताः। यथा स्कन्धा एवं धातव आयतनानि च / (v) सहायसंग्रहेण रूपस्कन्धः सह तदाश्रितैर्वेदनादिभिः सहायैर्गुह्यमाण: पञ्चभि: स्कन्धः संगृहीतः / एवं वेदनादयोऽपि प्रत्येकं सपरिवारा गृह्यमाणाः पञ्चभिः स्कन्धैः संगहीता भवन्ति / तथा धातव आयतनानि च सपरिवाराणि प्रत्येकं सर्वैर्धातुभिरायतनैश्च संगृहीतानि वेदितव्यानि / (viii) [Ch. 717 C] एकदेशसंग्रहेण शीलस्कन्धो रूपस्कन्धैकदेशेन संगृहीतः / समाधिप्रज्ञास्कन्धौ संस्कारस्कन्धैकदेशेन / कामव्यापादहिंसाधातवो धर्मधात्वेकदेशेन संगृहीताः / आकाशानन्त्यायतनादीनि मनोधर्मायतनैकदेशेन संग्रहीतानि / एवं कृत्वा यावन्तो धर्माः स्कन्धधात्वायतनैः संगृहीताः सूत्रान्तरेषु तेषामन्यतमसंग्रह एकदेशसंग्रहो वेदितव्यः। (ix) सकलसंग्रहेण दुःखस्कन्धः पञ्चभिरुपादानस्कन्धैः संगृहीतः, कामधातुरष्टादशभिर्धातुभिः, असंज्ञि सत्त्वायतनं दशभिरायतनर्गन्धरसायतनवजैः संगहीतम् / [Ms. 42B]एवं कृत्वा यावन्तो धर्माः स्कन्ध[T. 43 A]-धात्वायतनः संगहीताः सूत्रान्तरेषु तेषामशेषतः संग्रहः सकलसंग्रहो वेदितव्यः / (x) इतरेतरसंग्रहेण स्कन्धाः प्रत्येकं धातुभिरायतनैश्च संगृहीताः, यथायोगमेवं धातवः स्कन्धायतनैरायतनानि स्कन्धधातुभिः संगृहीतानि [इति] विस्तरेणावगन्तव्यम् / / 1. Ms. has no chapter division. T. Chapter IV. Ch. Chapter Vof मूलवस्तु. 2. Ms. णे. 3. T. omits आदि. Ms, appears as it but an attempt at correction in visible. 5. स is illegible in Ms. due to overwriting. 6. Ms. प्र.