________________ लक्षणसमुच्चयः 550 (2) [As. P. 33] संग्रहलक्षणं पुनर्लोकप्रसिद्धसंग्रहानुसारेण [Ch. 718A] षद्विधं द्रष्टव्यम्। तत्पुनः कतमत् / (i) पदस्थानसंग्रहो यथा जम्बूद्वीपसंगृहीता मनुष्याः, अरण्यसंगृहीता मृगा इति लोके उच्यते तथेहापि चक्षुरादिभिः चक्षुर्विज्ञानादीनां संग्रहो वेदितव्यः। (ii) निबन्धसंग्रहो यथा रज्ज्वादिना काष्ठभारादिकस्य तथा कायेन चक्षुरादोनामिन्द्रियाणाम् / (iii) तुल्यार्थसंग्रहो यथा समानसर्वप्रयोजनानां विस्रम्भिणां मनुष्याणां परस्परं तथकालंबनप्रवृत्तानां संप्रयुक्तानामान्योन्यम् / (iv) उपादानसंग्रहो यथा स्वामिना आत्मीयतः परिग्रहीतादीनां दासादीनां तथालयविज्ञानेनात्मभावस्य / (v) अविसारसंग्रहो यथा घटेनोदकस्य तथा समाधिना तदन्येषां चित्तचैतसिकानाम् / (vi) अभिसंक्षेप[सं] ग्रहो यथा [Ms. 43A] समुद्रेण नदीनां तथा रूप[T. 43 B]स्कन्धेन चक्षुरादोनामिति / तदत्राभिसंक्षेपसंग्रहमधिकृत्य कादशविधः संग्रहो वेदितव्यः / / [I (3)] , 651. (i) परमाणुदेशे सर्वेषां देशिनामित्येकपरमाणपर्यापन्नानां रूपादीनामविनिर्भागः समानदेशत्वेन वेदितव्यः / (ii) [As. P. 34] परमाणोरूर्व सर्वेषां देशिनां मिश्रीभावः तद्यथा कलुषे पानोये अप्पृथिवीपरमाणनां परस्परम् / (iii) देशिनामेव समुदायिनामन्योन्यं समवधानं तद्यथा भित्तौ मृत्पिण्डेन मत्पिण्डान्तरस्य / (iv) सहभाव सं [प्रयोग एकात्मभावे क्षणिकानां स्कन्धादीनाम्। (v) कृत्यानुष्ठानसंप्रयोग एकस्मिन् प्रयोजने प्रयुक्तानामन्योन्यम् / (vi) संप्रतिपत्तिसंप्रयोगः [Ch. 718B] परभावेन न स्वभावेन तद्यथा चित्तं चित्तान्तरेण न संप्रयुज्यते, वेदना वेदनान्तरेणेत्यवमादि / न विरुद्धयोस्तद्यथा रागद्वेषयोः कुशलाकुशलयोर्वेत्येवमादि। न विसदशकालयोस्तद्यथा वर्तमाना. नोगतयोरतीतवर्तमानयो। न विसभागधातुभूमिकयोस्तद्यथा कामावचररूपावचरयोः प्रथमद्वितीयध्यानभूमिक [ Ms. 43B] योर्वेत्येवमादि / सर्वत्रगः संप्रतिपत्तिसंप्रयोगः वेदनादीनां षण्णां सर्वास्ववस्थास्वेषां विनान्योन्य [T.44A]मभावात् / उचितस्तदेकत्यानां च शैक्षाशैक्षाणामित्येकान्तलौकिकानां कुशलानामकुशलाव्याकृतानां च यथासंभवम् / प्राद्यतदुत्तराणामित्यपूर्वजातीयत्वेन प्रथमक्षणोत्पन्नानां द्वितीयादिक्षणोत्पन्नानां च लोकोत्तराणामनुचितत्वज्ञापनार्थम् / / 1. T & Ch. omit आदि. 2. Ms. adds स. 3. Ms. & T. have no Chapter division, Ch. III of मूलवस्तु. 4. Ms. वं. 5. Ms. वं. 6. As (G). सर्वत्रगसंप्रयोगः.