________________ लक्षणसमुच्चयः 647 (1). (i) परिणतितः पारिणामिकः कवडीकार आहारः, परिणामकाले इन्द्रियमहाभूतपोषणात् / (ii) विषयतो वैषयिकः' स्पर्शाहारः, इष्टविषयाधिष्ठानेन स्पर्शनाश्रयानुग्रहणात् / (iii) पाशात प्राशिक: मनःसंचेतनाहारः, अभिप्रेतवस्तुप्रतिबद्धाशावशेनाश्रयानुग्रहणात् / (iv) उपादानत प्रौपादानिकः विज्ञानमाहारः, आलयविज्ञानोपा दानवशेनात्मभा[Ms. 41 A]वोपस्थानात् / तथाहि तद्वियुक्त आश्रयः पूतीभवतीति / / . 647 (2) पुनश्चत्वारोऽप्याहाराः समस्य चतुभिः प्रभेदैव्यवस्थाप्यन्ते / तद्यथा (i) अशुद्धाश्रय[T. 41B]स्थितिक: कामावचराणां पृथगजनानाम्. सकलबन्धनत्वात्। (ii) शुद्धाशुद्धाश्रयस्थितिकः शैक्षाणां रूपारूप्यावचराणां च पृथगजनानाम्, सावशेषबन्धनत्वात् / (iii) शुद्धाश्रयस्थितिकोऽर्हताम्, सर्वबन्धनविनिर्मुक्तत्वात् / (iv) स्थितिसांदशिको बुद्धानां बोधिसत्त्वानां च महाप्रभावप्राप्तानाम्, आहारवशेन स्थितिरिति संदर्शनमात्रत्वात् / / 548 A. [As. P. 31] असंस्कृतकदेशः निष्पन्नस्वभावः' सोत्तरमिति निर्वाणं मुक्त्वा, तस्य सर्वधर्माग्रत्वादिशुद्धायाश्च तथतायास्तल्लक्षणत्वात् / / 649 (1) [Ch. 717 A] समासतः प्रभेदस्त्रिविधः, त्रिविधं स्वभावमधिकृत्य पुद्गलनैरात्म्यनयेन वेदितव्यः। तत्र (i) परिकल्पितः स्वभावः स्कन्धादीन्यधिष्ठायाविद्यमान आत्मादिस्वभावो य: परिकल्पितः / (ii) परतन्त्रः स्वभावस्तान्येव स्कन्धादीनि यत्रासावात्म [] द्यभूतविकल्पः प्रवृत्तः / (iii) परि. निष्पन्नः स्वभावो भावाभाववियुक्तलक्षणा हि तथता', स्कन्धादिष्वात्माद्यभावनैरात्म्या1°स्तिता[Ms. 41 Bjलक्षणत्वात् / / ___$ 49 (2) (i) लक्षणप्रभेदो धर्माणां स्वभावमधिकृत्य, रूपं वेदनेत्येवमादि / [T. 42A] (ii) प्रकार[प्र] भेदो विशेषमधिकृत्य, द्रव्यसन्तः प्रज्ञप्तिसन्त इत्येवमादि / (iii) आश्रयप्रभेदः प्रत्यात्मभावं स्कन्धादीनां नानात्वमधिकृत्य / 1. Ms. वैशैकः for वैषयिकः. Cf. As (G). P. 28, 2. Ms. त्पा. 3. Ms. °नं for °नात्. 4. Ms. adds अ. Cf. As (G). P. 28. 5. As. (G). & T. °सांदर्शनिको. अ is illegible in Ms. due to overwriting. 7. T. & Ch. omits निष्पन्नस्वभावः. 8. Ms. नम्. 9. T. omits हि तथता. 10. T. adds आदि.