________________ लक्षणसमुच्चयः कदाचित्क्लिष्टम् / (v) आवेधबलेन समाधेर्युत्थाय चरतस्तावत्समाहितभूमिकं चित्तम् [अ] समाहितक्षणानन्तरव्यतिभिन्नमनुवर्तते यावत्तद्विरोधिक्लेशसमुदाचारात्परिहीण इति / तद्विरोधि क्लेशसंप्रयुक्तस्य पुनश्चित्तस्य हेत्वादिभिश्चतुभिर्बलैः समुदाचारो वेदितव्यः-तत्र (vi) तावद्धेतुबलेन यद्यवश्यं भूमि - परिहाणिसंवर्तनीयमावरणं पूर्वमुपचितं भवति; (vii) विषयबलेन यदि रागाद्युत्पत्यनुकल: शुभादिनिमित्तः प्रभावोत्कटविषय आभाससमागतो भवति; (viii) स्मृतिब[Ms. 36 A]लेन यदि स्मरणसंकल्पै [T. 36 A]रतीतान्विषयान प्रपञ्चयति; (ix) मनस्कारवलेन यदि मीमांसामनस्कारेणान्यतरान्यतरच्छुभनिमित्तं मनसिकरोतीति / (x) प्रतिसंधिवलेन नव मरणचित्तान्यात्मभावतृष्णासंप्रयुक्तानि त्रिषु धातुषु प्रत्येक कामरूपारूप्यावचराणि / तत्र कामधातोश्च्युत्वा कामधातावेव प्रतिसंधि बध्नतः कामावचरमात्मभावतृष्णासंप्रयुक्त मरण[Ch. 714 C]चित्तं वेदितव्यम् / रूपारूप्यधात्वोः प्रतिसंधि बनतो रूपारूप्यावचरम् / तथा रूपारूप्यधातुभ्यां च्युत्वा तत्र वान्यत्र वोत्पद्यमानस्य षट् चित्तानि योजयितव्यानि / सा पुनरात्मभावतृष्णा सहजाऽनि रूपितालंबनानिवृताव्याकृता / आत्मभावजाति"श्चास्याः प्रकारापरिच्छेदेनालंबनं वेदितव्यम् / तद्वशेना [न]न्तरं पृथगजनानामन्तराभवप्रतिसंधिः / आर्याणामप्यवोतरागाणां मरणकाले यावदस्पष्टसंज्ञावस्थां न गच्छति10 तावदसौ तृष्णा समुदाचरति। ते त्वेनां परिच्छिद्य प्रतिपक्षणाभिनिगृह्णन्ति / वीतरागाणां त्वार्याणां प्रतिपक्षस्य बलीयस्त्वान्नवासी समुदाचरत्यप्रहीणापि सती। तदनु[Ms. 36B]शयवशेन तु तेषां प्रतिसंधिः। अन्तरा[T. 36 B] भवप्रतिसंधिक्षण: पुननित्यमनिवृताव्याकृत एव विपाकत्वात्। तत ऊवं कुशलोऽप्य .. 1. This न is in bottom margion of Ms. 2. Ms. adds सं. 3. भूमि is in bottom margion of Ms. But it is not found | T. & Ch. 4. T. odds मरणचित्तं वेदितव्यम . 5. Ms. °जाभिनि° for °जानि. 6. Ms. वृ. 7. T. सहजा for जातिः. 8. Ms. मा. 9. Ms. नं. 10. Ms. न्ति. 11. Ms. °दम° for °तद°, there being an attempt to revise it. 12. Ms. adds. न.