________________ 20 अभिधर्मसमुच्चयभाष्यम् कुशलोऽप्यव्याकृतोऽपि यथासंभवम्, च्युतिचित्तं स्थापयित्वा / अन्तराभवच्युतिचित्तं तु नित्यं क्लिष्टं मरणभववत् / उपपत्तिप्रतिसंधिः पुनर्नित्यमनिवृताव्याकृत एवेति वेदितव्यम् / बोधिसत्त्वानां तु प्रणिधानबलेनोपपद्यपानानां मरणचित्तादिकमेकान्तेन सर्वं कुशलं वेदितव्यम् / समाप्तः समनन्तरप्रत्ययप्रसङ्गः॥ 641C (1) (i) परिच्छिन्नविषयालंबनतः पञ्चानां विज्ञानकायानामालं. बनम्, प्रतिनियतविषयत्वात् पञ्चानां विज्ञानकायानाम् / (ii) अपरिच्छिन्नविषयालंबनतः मनोविज्ञानस्यालंबनम्, सर्वधर्मविषयत्वान्मनोविज्ञानस्य / (iii) अचित्रीकारविषयालंबनतोऽव्युत्पन्नसंज्ञानां मनोविज्ञानस्यालंबनम, नामतोऽक्ष रोकतुमशक्यत्वात् / (iv) चित्रीकारविषयालंबनतस्तद्विपर्य [या] द्वेदितव्यम् / (v) सवस्तुकविषयालंबनतो दष्टिमस्मिमानं तत्संप्रयुक्तांश्च धर्मान् स्थापयित्वा तदन्येषामा. लंबनम् / (vi) अवस्तुकविषयालंबनतः स्थापितानामालंबनम्, [Ch. 715 A.] आत्माधिष्ठानत्वात् / (vii) वस्त्वा [Ms. 37 A., T. 37 A]लंबनतोऽनास्रवालंबनान् विसभागधातुभूमिसर्वत्रगाननिवारितवस्तुकांश्चातीता नागतालंबनान स्थापयित्वा तदन्येषामालंबनम् / (viii) परिकल्पालंबनतः स्थापितानामालंबनम्, स्वपरिकल्पमात्रालंबनात् / (ix) विपर्यस्तालंबनं नित्याद्याकाराणाम् ! (x) अविपर्यस्तालंबनमनित्याद्याकाराणाम्। (xi) सव्याघातालंबनमप्रहीणज्ञेयावरणानाम् / (xii) अव्याघातालंबनं प्रहीणज्ञेयावरणानामिति / / 541C (2). आलंबनप्रत्यये विनिश्चयः-लक्षणतोऽपि प्रभेदतोऽपि स्थितितोऽपि परिज्ञानतोऽपि प्रहाणतोऽप्यालबनव्यवस्थानं वेदितव्यम् / / (i). कथं लक्षणतः / योऽर्थस्तत्प्रतिभासानां चित्तचैतसिकानां धर्माणामुत्पत्तिनिमित्तम, ते चोत्पन्नास्तदर्थाभिनिवेशव्यवहारप्रत्यात्मावगमाय भवन्ति तदालंबनलक्षणम् / / (ii). कथं प्रभेदतः। (a) असदालंबनं तद्यथा विपर्यस्तानां चित्तचतसिकानामतीतानागतस्वप्नप्रतिबिंबमायाद्यालंबनं च / (b) सदालंबनं [T. 37B] तदन्येषाम् / (c) अनालंबनमालंबनं रूपं चित्तविप्रयुक्ता असंस्कृतं च / (d) सालंबनमालंबनं चित्तचैतसिका धर्माः। (e) सम्यक्त्वालंबनं तद्यथा * कुशलम् / 1. Ms. adds न. 2. त् illegible in Ms 3. Ms. appears न्ता. 4. T. & Ch, नामाक्ष° for नामतोऽक्ष. 5. Ms. स्त्व. 6. T. & Ch. omit अतीत.