________________ अभिधर्मसमुच्चयभाष्यम् समनन्तरप्रत्ययः। यथा चित्तमेवं चैतसिका अपि वेदितव्याः। (ii) सभागविसभागचित्तचैत्तोत्पत्तिसम[न]न्तरतोऽपीति कुशलाः चित्तचत्ताः कुशलानां सभागानामकुशलाव्याकृतानां च विसभागानामनन्तरोत्पन्नानां समनन्तरप्रत्ययः। एवं कुशलाव्याकृताः स्वान्यप्रकाराणां योजयितव्याः / तद्यथा कामावचरा' कामावचराणां रूपारूप्यावचरानास्रवाणां चानन्तरोत्पन्नानां [T. 35 A) समनन्तरप्रत्ययः / [Ms. 35A] एवं रूपावचरादयोऽपि पृथगपृथग्रपावचरादीनां कामावचरादीनां चा[न]न्तरोत्पन्नानामिति योजयितव्यम् / / / / 41B (2) किं खलु सर्वस्य चिन्तस्यानन्तरं सर्वं चित्तमुत्पद्यते, अहोस्विदस्ति प्रतिनियमः। अस्तीत्युच्यते। अत्रैतस्य चित्तस्यानन्तरमिदं चेदं च चित्तमुत्पद्यत इत्युच्यमाने बहु वक्तव्यं जायते / तस्मात्सामान्येन चित्तोत्पत्ती लक्षणमात्रं व्यवस्थाप्यते। तद्यथा दशभिर्बलैश्चित्तस्योत्पादो वेदितव्यः-परिचयबलेन छन्दबलेन प्रयोगबलेन समापत्ति[Ch. 714B]बलेनऽऽवेधबलेन हेतुबलेन विषयबलेन स्मृतिबलेन मनस्कार बलेन प्रतिसंधिबलेन च / (i) परिचयवलं पुनस्त्रिविधम्-मृदु मध्यमधिमात्रं च। (a) समापत्तिस्थितिव्युत्थाननिमित्तानामनुपलक्षितत्वान्मृदु / (b) उपलक्षितानां स्वपरिचित त्वान्मध्यम्। (c) सुपरिचित तोपलक्षितत्वा दधिमात्रम् / तत्र मृदुना परिचयबलेन ध्यानारूप्याणाम[नु]पूर्व्यसमापत्तिर्वेदितव्या। मध्येन व्युत्क्रान्तकसमापत्तिरेकान्तरिकयोगेन / अधिमात्रेण यथेष्टं सर्वाणि वा व्युत्क्राम्यानुलोमं प्रतिलोमं च समापत्तिर्वेदितव्या। (ii) छन्दबलेन' द्वितीयध्यान[T.35B]लाभी प्रथमं ध्यानं समापन्नो [Ms. 35 B] यद्याकांक्षति द्वितीयध्यानभूमिकं व्युत्थानचित्तमामुखीकरोत्यथ नाकांक्षति कामावचरं कुशलमनिवृताव्याकृतं वा। एवमन्यत्रापि विस्तरेण योज्यम् / (iii) प्रयोगबलेन कामावचरस्य कुशलस्यैवानन्तरं तत्प्रथमतो रूपावचरं चित्तमुत्पद्यते / अनागम्यस्य कुशलस्यानन्तरं मौलम् / मौलस्य कुशलस्यानन्तरं द्वितीयध्यानसमापन्नकमित्येवमादि विस्तरेण यावद्भवाग्रात् वेदितव्यम् / (iv) समापत्तिबलेन शुद्धकं समापन्नस्य कदाचिच्छुद्धक मेवोत्पद्यते 1. T. omits कामावचरा. 2. Ms. संस्का° for मनस्का. 3. Ms. सुपरिजित. 4. Ms. त्त. 5. ततोपलक्षि is in bottom margion of Ms. 6. Ms. adds त. 7. Ms. adds प्रतिभानेन. 8. Ch. वा. 9. Ms, adds, #.