________________ लक्षणसमुच्चयः निर्वर्तने कारणान्तरापेक्षणात् / [As. P. 29] (s) विरोधि'कारणं विघ्नकरणात् / (t) अविरोधिकारणं- तद्विपर्ययेण वेदितव्यम् // (iii) [Ch. 713C] तद्यथा भूतानि भौतिकं चेति यथासंभवं न त्ववश्यं सर्वत्र संघाते [Ms.34A, T. 34A] चत्वारि महाभूतानि भवन्ति रूपादिकं वा भौतिकम् / इत्यतो यद्यत्रास्ति तत्तेन सहोत्पद्यते नान्योन्यं विनेति // (iv) सहायनयम्येन सहभू हेतुर्व्यवस्थापितः। भूतानि भौतिक चेत्युदाहरणमात्रमेतद्वेदितव्यम्, चित्तचैत सिकानामन्योन्यम विनाभावनियमात् / यद्येवं संप्रयुक्तहेतोः पृथग्व्यवस्थानं न प्राप्नोति, चित्तचैतसिकानां सहभूहेतावन्तर्भावात् / यद्यप्येतदेवं तथाप्यन्येनार्थन। ये धर्माः सहभावेनालंबनं प्रतिपद्यन्ते नान्यतमवैकल्येन ते संप्रतिपत्तितः संप्रयुक्तकहेतुर्व्यवस्थाप्यते, न सहभावमात्रेण, तद्यथा चित्तं चैतसिकाश्च // . (v) पूर्वभावितानामि ति पूर्वाभ्यस्तानां पूर्व समुदाचरितानामित्यर्थः / या अपरान्ते उत्तरोत्तरा पुष्टतरतमा प्रवृत्तिरिति तैः परिपोषितबीजानां तदन्वयानामनागते काले विशिष्टोत्पत्तितो द्रष्टव्या / एवमयं सभागहेतुः सदशानां पुष्टिनिमित्तत्वेन व्यवस्थापितः / / (vi) सर्वत्रग हेतुन केवलं सदशस्यैव पुष्टये किं तहि यस्य कस्यचिद्रागादेः क्लेशस्याभ्यासेन सर्वेषां द्वेषादीनां प्रबन्धपुष्टया [T. 34B] दृढीकारो भवत्यतो वन्धनगाढी[Ms. 34B]करणान्मोक्षप्राप्तिपरिपन्थार्थेनास्य व्यवस्थानं वेदितव्यम्॥ . (vii) विपाकहेतु : पुनरायत्यामेकान्तविसदृशस्यैवानिवृत्ताव्याकृतस्यात्मभावसंग्रहीतव्यविपाकस्याक्षेपकत्वात् परिग्रहार्थेन व्यवस्थापितः / कुशलसास्रवग्रहणमनास्रवाणां जन्मविरोधित्वेनानाक्षेपकत्वात् // 641B (1) (i) [Ch. 714A] नरन्तर्यसमनन्तरतोऽपीति नावश्यं क्षणनैरन्तयं किंतर्हि चित्तान्तरनरन्तर्यमप्यत्र नैरन्तयं द्रष्टव्यम् / इतरथा ह्यचित्तिकसमापत्ती व्युत्थानचित्तस्य समापत्तिचित्तं न समनन्तरप्रत्ययः स्यात् / भवति च / तस्मादेकस्मिन् संताने पश्चिमस्य चित्तस्य पूर्वकं चित्तं चित्तान्तरेणानन्तरितं 1. Ms. निरोध° for विरोधि. ...2. "विघ्न..'कारणं" is in bottom margin of Ms. 3. भू. illegilele. 4. T. adds कुशलाकुशलाव्याकृतानां धर्माणाम् / 5. Ms. या. As (G). पृष्ट तरा पुष्टतमा. 6. Ms. क. 7. Ms. ग.