________________ अभिधर्मसमुच्चयभाष्यम् द्रष्टव्या / तेषां लोकोत्तराभ्युपग'मनिष्यन्दधर्मनैमित्तिकतस्तद्वा सनाया लोकोत्तरधर्महेतुत्वं वेदितव्यम् / / 841 A (2) अपि खलु स्वभावतोऽपीत्येवमादिना षड्ढेतवो हेतुप्रत्यय इति दर्शयति / तत्र स्वभावतः प्रभेदतश्च कारणहेतोर्व्यवस्थानम् / शेषैः पदैः यथाक्रम सहभूसंप्रयुक्तसभागसर्वत्रगविपाकहेतूनां व्यवस्थानं वेदितव्यम् / (i) हेतुस्वभावमधिकृत्य कारणहेतुव्यवस्थानात्सर्वहेतवः कारणहेतावन्त. भूता वेदितव्याः / सहायादिविशेषप्रभावनार्थं तु पृथग्व्यवस्थानम् / . (ii) [Ch. 713 B] कारणहेतुप्रभेदे 4"विज्ञानसामग्रयादिकं यनिर्दिष्टमुदाहरणमात्रं तद् द्रष्टव्यम्, तया दिशाऽन्यस्यापि तज्जातीयस्याभ्यूहनार्थम् / तत्र (a) उत्पत्तिकारणं ततः कार्यस्याभूत्वा [Ms. 33B] 'प्रादुर्भावात् / (b) स्थितिकारणमुत्पन्नस्य प्रबन्धानुपच्छेदात् / (c) धृतिका-[T. 33 B]रणं पातप्रतिबन्धात् / (d) प्रकाशनकारणमावतस्याभिव्यञ्जनात् / (e) विकारकारणं तत्संतानस्यान्यथात्वापादनात् / (f) वियोगकारणं संबन्धस्य द्वैधीकरणात् / (g) परिणतिकारणं तदवयवानां देशान्तरसंचरणात। (h) संप्रत्ययकारणं तेन विपरोक्षानुमानात् / (i) संप्रत्यायनकारणं तेन सम्यनिश्चयात् / (j) प्रापणकारणं तेनाधिगमात् / (k) व्यवहारकारणं यथानामधेयं निमित्तोद्ग्रहणेनाभिनिविश्यानुव्यवहरणात् / (1) अपेक्षाकारणमन्यत्रेच्छो'त्पत्तिनिमित्तत्वात् / (m) प्राक्षेपकारणं तदन्वयावस्थान्तरपरापरभाविन आवेधकत्वात / (n) प्राभिनिर्वत्तिकारणमनन्तरभाविनो जनकत्वात् / (०)परिग्रहकारणं स्वबीजोत्पादिन उपोद्बलत्वात् / (p) आवाहनकारणं तदानुकल्येनाकर्षणात् / (q) प्रतिनियमकारणं भिन्नस्वभावतयान्योन्यफलत्वात। (r) सहकारिकारणं स्वकार्य 1. Ms. श. 2. Ms. °कतोद्धा' for °कतस्तद्वा. is indistinct due to overwriting or smudging of ink. 4.""-4.. Ch. omits विज्ञान"..हनार्थम. 5. Ms. ऋतं for त्रं तद्, 6. Ms. adds त. 7. Ms. adds त्. 8. Ms. adds न. 9. Ms. 777deg for testo. 10. Ms. afer for a fa. As (G). afro. 11. Ms. नौ जा for नो ज. 12. T. & Ch. फलोत्पादात्.