________________ लक्षणसमुच्चयः 540 I. [A. S. P. 28] (i) विज्ञानोत्पत्तिप्रमेवतश्चक्षुःप्रतीत्य रूपाणि चोत्पद्यते' चक्षुर्विज्ञानमित्येवमादि / (ii) व्युत्पत्तिप्रभवतः सत्त्वलोकमधिकृत्य, अविद्याप्रत्ययाः संस्कारा इत्येवमादि / (iii) बाह्य वस्योत्पत्तिप्रभेदतो बीजं प्रतीत्याङ्कुरः, अङ्कुरं प्रतीत्य काण्डः / तथा नाऽपत्रपुष्पफलानि योज्यानि / (iv) संवर्तविवर्तप्रभेदतः सर्वसत्त्वसाधारणकर्माधिपत्यं प्रतीत्य महापृथिव्यादीनामुत्पादात् / (v) प्राहारोपस्तम्भप्रभेदतश्चतुर आहारान् प्रतीत्य त्रैधातुके सत्त्वाना[Ms. 32 B]मवस्थानात् / (vi) इष्टानिष्टगतिविभागप्रभेदतः सुचरितदुश्चरिते प्रतीत्य सुगतिदुर्गतिगमनात् / (vii) विशुद्धिप्रभेदतो मोक्ष[T. 32 B]भागीयानि प्रतीत्य निर्वेधभागीयोत्पत्तितो यावद्दर्शनभावनामार्गानुपूर्व्याहत्त्वप्राप्तितः, परतो वा घोषं प्रतीत्याध्यात्म च योनिशो मनस्कारं सम्यग्दृष्टिस्ततो यावत्सर्वास्रवक्षय इति.। (viii)प्रभावप्रभेदतोऽधिगम प्रतीत्याभिज्ञादयो वैशेषिका [Ch. 713 A] गुणा इति / एभिः प्रभेदैविस्तरेण संस्काराणां प्रतीत्यसमुत्पादोऽनुसर्तव्यः / / 5 40 J. (i-ii) [सं] क्लेशानुलोमप्रतिलोम इति प्रवृत्त्यानुपूर्वीमधिकृत्य, अविद्याप्रत्ययाः संस्कारा इत्येवमाद्यनुलोमनिर्देशः / जरामरणं जरामर[ण] समु दयो [जरामरणनिरोधो] जरामरणनिरोधगामिनी प्रतिपदिति सत्यव्यवस्थानमधिकृत्य प्रतिलोमनिर्देशो वेदितव्यः / * (iii-iv) [व्यवदानानुलोमप्रतिलोमत इति] 4 तद्यथाऽविद्यानिरोधात् संस्कारनिरोध इत्येवमादि व्यवदानानुलोमनिर्देशः / कस्मिन्नसति न जरामरणं भवति कस्य निरोधाज्जरामरणनिरोध इति प्रतिलोमनिर्देशतः // ___41 A (1). हेतुप्रत्यय पालयविज्ञानं कुशलवासना च सास्रवानास्रवाणां च संस्काराणां यथाक्रमम् / (i) आलय विज्ञानं पुनद्विविधम्-वैपा [Ms. 33A1किकमाभिसंस्कारिक च। तत्र (a) वैपाकिक[T. 33 A]मुपपत्तिप्रातिलम्भिकानां हेतुप्रत्ययः / (b) आभिसंस्कारिकं प्रायोगिकानामायत्यां चालय विज्ञानान्तरस्य हेतुप्रत्ययो द्रष्टव्यः / प्राभिसंस्कारिकं पुनरालयविज्ञानं तज्जान्मिकप्रवृत्तिविज्ञानसमुदाचारवासितं वेदितव्यम् / (ii) कुशलवासना मोक्षभागी'यानां वासना . 1. Ms. न्ते. 2. Ms. inserts म. 3. Ms. adds त्पा. 4. Ch. adds the bracketed portion. T. & Ch. शः for शतः 6. Ms. यल for लय, 7. Ms. गाभी for भागी.