________________ अभिधर्मसमुच्चयभाष्यम् त्पादात् / (ix) अनुरूपहेतुफलपरिग्रहार्थः सर्वतः सर्वस्यासंभवात् / (x) विचित्रहेतुफलार्थोऽनेकै [T. 31 B] कजातीयात्कारणादेका नेकजातीयकार्योत्पत्तेः / (xi) प्रतिनियतहेतुफलार्थः संतानान्तराफलनात् // 540 H. (1) पुनरेभिरेवार्थः प्रतीत्यसमुत्पादस्य पञ्चविघं गाम्भीर्य वेदितव्यम् (i) हेतुगाम्भीय विषमहेत्वहेतुवादप्रतिपक्षेन द्वाभ्यामर्थाभ्याम् / (ii) लक्षणगाम्भीयं निरात्मकतयैकार्थेन / (iii) उत्पत्तिगाम्भीयं प्रत्ययेभ्यः फलोत्पत्तावप्यतत्कृततया द्वाभ्यामर्थाभ्याम् / (iv) स्थिति गाम्भीर्यमव्यवस्थितानां स्थित्याभासनाद्वाभ्यामर्थाभ्याम् / (v) प्रवृत्तिगाम्भीयं हेतुफल प्रवत्तिदुर्विज्ञानत्वाच्चतुभिरथैरिति / - 540 H. (2) [Ch. 712 C] अन्तरेण एव कर्तारं कर्म क्रिया चास्ति तत्फलोपभोगश्चेत्ययमत्र कर्मफलाविप्रणाशो वेदितव्यः // 640 H (3). (i) न स्वयंकृतो धर्मोऽनुत्पन्नस्याभावाद्यनासौ क्रियेत / (ii) न परकृतः प्रत्ययानामकत कत्वात् / (iii) नोभयकृत एतेनैव कारणद्वयेन / (iv) नास्वयंकाराप[र] कारहेतुसमुत्पन्नः हेतुप्रत्ययानां फलो [Ms. 32 A]त्पत्ती सामर्थ्यात् / / अपरः पर्यायः। (i) न स्वयं कृतः प्रत्ययापेक्षणात् / (ii) न परकृतः सत्स्वपि प्रत्ययेषु निर्बीजस्यानुत्पादात् / (iii) नोभय" कृत स्तदुभयोनिरीहकत्वात् / (iv) नाहेतुसमुत्पन्नो [T. 32 A] बीजप्रत्ययानां शक्तिसद्भा[वा]दिति / भवति ह्यपि स्वबीजत्वान्न परतः न स्वयं तदपेक्षणात् / निश्चेष्टत्वान्न च द्वाभ्यां तच्छक्ते प्यहेतुतः / / इति / न स्वयं न परतो द्विविधकोटिप्रतिक्षेपेऽपि गम्भीरः प्रतीत्यसमुत्पादः स्यात् प्रागेव यत्र चतस्रोऽपि कोटयः प्रतिक्षिप्यन्ते, तस्मादेतस्य परमगाम्भीर्य वेदितव्यम् / 1. T. & As(G) omit परिग्रह. 2. Ms. को. Ms. भ्यांसम for भ्याम. 4. Ms. त. Cf. As (G). P. 26. 5. T. adds अकर्तृकत्वात्. 6. T. & As(G). न स्वयंकारपरकाराहेतुसमुत्पन्न. 7. Ms. ये. 8. Ms. adds another कृत. 9. Ms. °पक्षे for °क्षेपे.