SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ लक्षणसमुच्चयः 33 मात्मभावपरिपूर्ति च सत्त्वान् ग्राहयति, तन्निवृत्ताविन्द्रियान्तरावैकल्यात् / -प्रत्ययश्च भवति स्पर्शस्य / (vi) स्पर्शो विषयोपमोगे सत्त्वान् प्रवर्तयति, तन्मुखेन सुखवेदनीयादित्रिविधविषयोपभोगात् / प्रत्ययश्च भवति वेदनायाः / (vii) वेदना जन्मोपभोगे च सत्त्वान् प्रवर्तयति, तदधिष्ठानेनेष्टादिकर्मविपाकोपभोगात् / प्रत्ययश्च भवति तृष्णायाः, तत्संप्रयोगाद्य भिलाषमुखेन तृष्णोत्पत्तेः / (vii) तृष्णा जन्मनि सत्त्वानाकर्षति, तद्वशेन जन्मान्तरस्रोतोऽनुपच्छेदात् / प्रत्ययश्च भवत्युपादानस्य, आस्वादप्रार्थनामुखेन कामादिषु छन्दरागप्रवृत्तेः / (ix) उपादानं पुन [Ms. 31A]र्भवादानाय सोपादानं च सत्वानां विज्ञानं करोति, नरकादिगतिविशिष्टपुनर्भवप्रतिसंधये कर्मवासनानियमात् / प्रत्ययश्च भवति भवस्य, तद्वशेन संस्कारवासनयोर्व 4त्तिलाभात् / (x) भवः पुनर्भवे सत्त्वानभिमुखोकरोति, अनन्तरगत्यन्तरावाहनात् प्रत्ययश्च भवति जातेः, [T. 31A]. ततो निकायसभागान्तरनिर्वत्तेः / (xi) जाति म रूपाद्यानुपूर्व्या सत्त्वानभिनिवर्तयति, उत्तरोत्तरावस्थान्तरावाहनात्। [Ch. 712 B] प्रत्ययश्च भवति जरामरणस्य, जातौ सत्यां तत्प्रबन्ध स्यान्यथात्वविनाशसंभवात् / (xii) जरामरणं पुनःपुनर्वयः" परिणामेन जीवितपरिणामेन च सत्त्वान् योजयति, यौवनायुषोविनाशेन योजनात् / / 640 F. विज्ञानस्य कर्म[सं] क्लेशसंग्रहणं संस्कारवासनाप्रभावितत्वाद्विज्ञानाङ्गस्य। .5 40 G. (i) निष्ककार्थ ईश्वरादिकर्तृ रहितत्वात् / (ii) सहेतुकार्थोऽविद्यादिहेतुकत्वात् / (iii) निःसत्त्वार्थः स्वयमनात्मत्वात् / (iv) परतन्त्रार्थः प्रत्ययाधीनत्वात् / (v) निरीहकार्थः प्रत्ययानां निर्व्यापारत्वात् / (vi) अनित्यार्थीऽशाश्वतत्वात् / (vii) क्षणिकार्थ उत्पत्तिकालात् परेणानवस्थानात् / (viii) हेतफलप्रब[Ms. 31 Bधानपच्छेदार्थः कारणक्षण निरोधसमकालं कार्यक्षणो1. ...-1 "प्रत्ययश्च ... स्पर्शस्य" is in the bottom margin. T. omits this. 2. ...-2 "प्रत्ययश्च.... वेदनायाः, is in the top margin, T. omits this marginal portion, 3. T. adds सत्त्वानां. 4. T & Ch. °नावृ° for °नयो१०. 5. Ms. adds. another म. Ms. धा. 7. Ms. य. cf. As (G). P. 26. 8. Ms. स्क. As. (G). निःक. 9. Ms. क्षणिक for क्षण.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy