________________ 32 अभिधर्मसमुच्चयभाष्यम् लक्षणत्रयाधिकारेणोद्वेजनार्थम् / जरामरणस्यकाङ्गकरणं विनापि जरां मरण' संभवा-[Ms. 30A.]त् / न त्वेवं जरायुजायां योनी विना नामरूपादिभिः षडायतनादीनां संभव इत्येषां पृथगङ्गीकरणं वेदितव्यम् / / $ 40 D. अङ्गप्रत्य [यत्वव्य]वस्थानं चतुरः प्रत्ययानधिकृत्य / तत्र (i) तावदविद्या संस्काराणां पूर्वोत्पन्नावासनतो हेतुप्रत्ययः, तत्परिभावितसंतानोत्पन्नानां कर्मणां पुनर्भवाभिसंस्करणसामर्थ्यात् तत्कालसमुदाचारिणी। (ii) आवेधतः समनन्तरप्रत्ययः, तदाक्षेपकविशेषेण संस्कारस्रोतानप्रवत्तेः / (iii) मनस्कारत आलंबनप्रत्ययः, मूढावस्थाया अग्रता[T. 30A]दिभिरयो . निशोमनस्कारालंबनीभावात् / (iv) सहभावतोऽधिपतिप्रत्ययः, तदाधिपत्येन तत्संप्रयुक्तायाश्चेतनाया विपरीतालंबनाभिसंस्करणात् / ... 640 E. (i) अविद्या भवे सत्त्वान् संमोहयति, तदांवत्तेः पूर्वान्तापरान्तमध्यान्तानां यथाभूतापरिज्ञानात् / यत एवं विचिकित्सति-कि वहमभूवमती [ते]ऽध्वन्याहोस्विन्नाभूवमित्येवमादि / प्रत्ययश्च [As. P. 27] भवति संस्काराणाम, तद्वशेन पुनर्भविककर्मोपचयात्' / (ii) संस्कारा गतिषु सत्त्वान विभजन्ति, कर्मवशेन सत्त्वानां गत्यन्तरगमनवैचित्र्यात् / प्रत्यया[Ms. 30 B]श्च भवन्ति विज्ञानस्य वासनायाः, आयत्या' नामरूपा भिनिर्वत्तये वी[Ch. 712]जपोषणात् / (iii) विज्ञानं 1°कर्मबन्धं धारयति, सस्कारासहितवासनासहोत्पत्तेः। प्रत्ययश्च भवति नामरूपस्य, मातुः कुक्षौ विज्ञानावक्रान्त्या नामरूपविवृद्धि गमनात् / (iv) नामरूपमात्मभावं सत्त्वान् ग्राहयति तन्निवृत्त्या सत्त्वानां निकायसभागान्तरभजनात् / नामरूपा[T. 30.B] दोनां षडायतनादिप्रत्ययभाव: पूर्वाङ्गसंनिश्रयेणोत्तराङ्गनिर्वृत्ति तो द्रष्टव्यः। (v) षडायतन 1. Ms. रां.' 2. Ms. णं. 3. Ms. °भिरिति / यो° for°भिरयो'. 4. Ms. °स्कारा° for °स्कर'. 5. Ms. भा. 6. Ms. पो. 7. T. omits कर्मोपचयात् and adds आदेः, 8. Ch. reads विज्ञानस्य, वासनाया आयत्यां... 9. T. & Ch. add आदि. 10. T. Ch. & As (8). add सत्त्वानां. 11. रा is written over स्का in Ms. 12. Ms. भा. 13. Ms. वृत्ति for वृत्ति,