________________ 31 लक्षणसमुच्चयः - 640A. 'अविद्याप्रत्ययाः संस्कारा इत्येवमादि / तत्र (i) अस्मिन् सतीदं भवति निरीहप्रत्ययोत्पत्तितामुपादाय / सति केवलं प्रत्यये फलं भवति, न तु फलोत्पादनं प्रति प्रत्ययस्य काचिदीहेत्यर्थः। (ii) अस्योत्पादादिदमुत्पद्यते अनित्य[T. 29 A]प्रत्ययोत्पत्तितामुपादाय, न ह्यनुत्पादि कारणात् किंचिदुत्पद्यमानं कार्य सिद्धमिति कृत्वा / [Ms. 29 B] (iii) अविद्याप्रत्ययाः संस्कारा इत्येवमादि समर्थप्रत्ययोत्पत्तितामुपादाय। निरीहकत्वानित्यत्वेऽपि सति न यतः कुतश्चित् प्रत्ययात् सर्वमेव फलमुत्पद्यते, किंहि समर्थात् / तद्यथाऽविद्यातः संस्कारा यावज्जातितो जरामरणमिति / / 5 40C. यान्यविद्या दीनि द्वादशाङ्गानि विभक्तानि तान्येव पुन: समस्य चत्वार्यङ्गानि भवन्त्याक्षेपा-गांदीनि / एतावच्च प्रवृत्तिनिर्देशे निर्देष्टव्यम् यदुत हेतुकाले येनाक्षिप्यते यच्चाक्षिप्यते फलकाले येनाभिनिर्वय॑ते यच्चाभिनिर्वत्यते तदेतत्सर्वमेभिरङ्गनिदिष्टं वेदितव्यम्। तत्र (i) प्राक्षेपकाङ्गमविद्यासंस्कारा विज्ञानं च, अनागतजन्माभिनिर्वृत्तये सत्येष्वज्ञानपूर्वकेण कर्मणा चित्तवासनार्थेन / (ii) आक्षिप्ताङ्ग नामरूपं पंडायतनं स्पर्शो वेदना च, तया चित्तवासनया नामरूपांदीना *मायत्यां पूर्वोत्तरसंनिश्रयक्रमेणाभिनिर्वृतये वीजपुष्टि[Ch. 711C]तः / (iii) अभिनिवर्तकाङ्गं तृष्णा उपादानं भवश्च, अप्रहीणकामादि तृष्णादि वसेन कामादिषु सुचरित [T. 29B] दुश्चरितप्रकार रतिपूर्वकेण छन्दरागेण सोपादाने विज्ञाने सति मरणावस्थायां फलदानं प्रति छन्द'. रागानुरूप्यान्तर कर्मवासनाभिमुखीभावात् / अभिनिवृत्त्यङ्ग जाति रामणं च, तेन प्रकारेण कर्मान्तरवासनाभिमुख्ये सत्यन्यतरस्मिन् गतियोन्यादिभेदभिन्ने निकायसभागे यथाक्षिप्ते नामरूपादिनिर्वृत्तेः। जातिजरामरणवचनं संस्कृत 1. T. has here धर्मधात्वायतनकदेशं स्थापयित्वत्यसंस्कृतस्य लक्षणम् / 6. 40. [T. Chapter III] आत्मधर्माहेतुकेश्वरादिहेतुकाभिनिवेशत्याजनार्थम् / $ 40 A. भगवतोक्तं यत् प्रतीत्यसमुत्पादलक्षणम्-अस्मिन् सतीदं भवति, अस्योत्पादादिदमुत्पद्यते / तदुत. Of this, Ch. also has "भगवतोक्त... . . . तदुत". 2. Ms, has additional a: fa. 3. Ms. adds नीति. 4....-4. "ङ्गादीनि"""रूपादीना" is in the bottom margin of Ms. 5. T. & Ch. omits आदि. 6. Ms. appears रा with T sign cut out. 7. Ms. न्दा.