________________ लक्षणसमुच्चयः 27 वस्थां प्राप्स्यति तदनागतम् / यत्प्राप्तं तदतीतमिति / कारित्रप्रत्युपस्थानतश्चक्षुरादीनां विज्ञानाश्रयादिभावात् / / . अतीतनिर्देशाधिकारेणेदमपि ज्ञाप्यते-किमर्थ भगवतातीतादीन्येव त्रीणि कथावस्तूनि व्यवस्थापितानि न निर्वाणमिति / [T. 25B] निर्वा[Ms. 26B]णस्य प्रत्यात्मवेदनीयतया निरभिलाप्यतामुपादाय कथयितुमशक्यत्वादित्यर्थः, दृष्टश्रुतमतविज्ञातव्यवहाराणां भूतभव्यवर्तमानाधिष्ठानत्वात् / 5 36 A [Ch. 709A, AS P. 22] दशानां धातूनां विज्ञानधातूनां रूपशब्दधर्मधातूनां च / चतुर्णामायतनानां रूपशब्दमनोधर्मायतनानाम् / तेष्वेवेति श्रद्धादिषु / प्रकृत्याऽप्रतिसंख्यायेति स्वरसेन, विना कल्याण मित्रादिबलेनेत्यर्थः / रुचिः संतिष्ठत इति न केवलं रुचिरेवोपपत्तिप्रातिलम्भिका कि तहि सह तैः श्रद्धादिभिरिति / कुशलस्य भावना सर्वे श्रुतमयादयः कुशला धर्मा वेदितव्याः / स्वर्गाढ्यकुलोपपत्तिपरिग्रहाभ्यामभ्युदयहेतुं दर्शयति / व्यवदानानु. कल्यपरिग्रहेण 'प्राप्तिहेतुमिति / विदूषणाप्रतिपक्षादयः परस्तानिर्देक्ष्यन्ते / ' 636B. [Ch. 709B, T. 26AL. 2, AS. P. 23] तदन्यः क्लेशोपक्लेशो दुश्चरितसमुत्थापक इति स पुनर्यः4 कामा[व] चरोऽनःसर्गिकः, नैसर्गिकस्तू यो दुश्चरितसमुत्थापकः सोऽकुशलः / तदन्यो निवताव्याकृतो वेदितव्यः / हिंसापूर्वकं चैत्यं प्रतिष्ठापयति यत्रोरभ्रमहिषादयो हन्यन्ते / कुदृष्टिपूर्वक यत्रानशनादिभिः पु[Ms. 27 A] ण्यार्थिनो वरार्थिनश्च क्लिश्यन्त इति / [Ch. 709 C] आक्षेपकं वा परिपूरकं वेति दुर्गतिमधिकृत्य / सुगतौ तु परिपूरकमेव, येनात्रोपपन्नो दारिद्रयादिकं व्यसनं प्रत्यनुभवति / कुशलान्तरायिका धर्मा प्रभीक्ष्णं गणसंनिपातादयः / / ....$ 36. C: अष्टौ धातवश्चक्षुःथोत्रघ्राणजिह्वाकायगन्धरसस्प्रष्टव्यधातवः / अष्टावायतनानि तान्येव / अदुष्टाप्रसन्नचित्तस्येति कुशलाकुशलविपर्ययं दर्श[य]ति / तैरेव परिगृहीता इति तदाकारत्वेन मनोजल्पमुखवृत्तत्वात् / [As. p. 24] तेषामेवाभिलापवासनेति नाम [T. 26 B]कायादिभिश्चित्तवासनाऽऽयत्यामभिलापप्रवृत्तये / तत्परिगृहीतेश्चित्तचैतसिकधर्मेर्यत्समुत्थापितमित्यप्रदुष्टाप्रसन्नचित्तस्य नामाद्यभिलापाकार[:] / अक्लिष्टाकुशलचेतसो यद्यस्य 1. Ch. adds सप्त 2. T. & Ch, add frafot 3. Here T. adds the explanation of the first four प्रतिपक्ष, among the eight. The text is contained in 25B7-26A-2.. 4. "स पुन'' is in the bottom margin of Ms. T. omits this. . 5. T. adds समुत्थापितम्. Ch. adds परिगृहीतचित्तचैतसिकम् /