________________ 26 अभिधर्मसमुच्चयभाष्यम् लक्षणस्य सर्वकालस्य सर्वस्त्र विषयस्य ग्राहक' षष्ठेन्द्रियजम् // प्रत्ययसाम[Ms. 25 B] ग्र्या विज्ञानस्योत्पत्तिमधिकृत्य प्रज्ञप्त्यां ग्राहकोपचारो वेदितव्यः, न तु भूतार्थेन व्यापारत्वाद् धर्माणामिति / / 632 B. यत्तावदग्राहकं ग्राह्यमपि तत् चक्षुरादीनामपि मनोविज्ञानेन ग्राह्यत्वात् / ग्राहकगोचर एवेत्यवधारणं 'चैतसिकव्युदासार्थम् / / 533 A. [Ch, 708 B] श्रुतचिन्तामय तदनुधर्मप्रतिपत्तिसंगृहीतस्याबहिर्मुखत्वम्, निष्यन्दधर्महेतुकत्वात्, तद्वशेन निर्वाणाद्यालंबनतो द्रष्टव्यम् / निष्यन्दधर्मः पुनर्बुद्धादीनामधिगमान्वया देशना वेदितव्या। चत्वारो धातवो घ्राणविज्ञानधातुर्गन्धधातुजिह्वाविज्ञानधातुः रसधातुश्च / द्वे आयतने गन्धरसायतने तदन्येषामेकदेशः कामधातुसंगृहीतः / / 534A [AS. P. 21] दशानां धातूनामिति सप्तानां विज्ञानधातूनां रूपशब्दधर्मधातूनां च / चतुर्णामायतनानामिति रूपशब्दमनोधर्मायतनानाम् / / 535 A. हेतुफलोपयोगत इत्युत्पन्नत्वान्निरुद्धत्वाच्च यथाक्रमम् / संक्लेशव्यवदानकारित्रसमतिकान्तत इति प्रत्यु [T. 25 A]त्पन्नरागादिश्रद्धादिवच्चित्तसंक्लेशव्यवदानसामर्थ्याभावात् / हेतुपरिग्र [Ms. 26 A]हविनाशतो वासनां स्थापयित्वा विनष्टत्वात् / फलस्वलक्षणभावाभावतो वर्तमाने काले तदाहितवासनासद्भावात्तदाधायकद्रव्याभावाच्च / स्मरसंकल्पादीनां निमित्तत्वमालंबनमात्र" भावाद्वेदितव्यम्। सर्वेषामेकदेशो[Ch. 708 C]ऽनागतप्रत्युत्पन्नासंस्कृतवर्जः / / 635 B. हेतौ सत्यनुत्पन्नत इत्यसंस्कृताद्विशेषणार्थम्, तद्धयनुत्पन्नमपि सन्न हेतुमदिति / अलब्धस्वलक्षणतोऽनिर्वृत्तस्वभावत्वात् / हेतुफलानुपयोगतस्तबीजस्याकृतकृत्यत्वात् तस्य चानुत्पन्नत्वात् / / 5 35 C. हेतुफलोपयोगानुपयोगतः पुनरनिवर्त्यत्वादस्थितत्वाच्च / प्रतीतानागतप्रभावननिमित्तत: प्रत्युत्पन्नमधिष्ठायातीतानागतप्रज्ञप्तेः / यत्ताम- 1. As (G) स्वसामान्यलक्षणसर्वविषयग्राहकं. 2. T. adds चित्त. Ms. दासा followed by another दासा. Ch. adds प्रज्ञा. 5. Ms. भो. 6. इति is in the bottom margin of Ms. 7. Ms. °नेमात्रा° for °नमात्र. 8. T. means "हेतु has not yet perished and फल is-not) existing''. Ch. means T has perished and 44 still exists".