________________ 28 अभिधर्मसमुच्चयभाष्यम् न क्लिष्टं नापि कुशलं चेतो भवति, तत ऐर्यापथिकाद्यव्याकृतं भवत्यन्यथा कुशलाकुशलं यथायोगमिति / [Ch. 710 A] यथापि तदप्रतिसंख्यायेति' कुशलत्वाद्विशेषयति, अक्लिष्टचित्त इत्यकुशलत्वात् / प्रतिसंख्याय भैषज्यं निषेवते स[Ms. 27 B]र्वव्याधिप्रतिपक्षेणारोग्यार्थम्। अधिगम निष्यन्दतोऽव्याकृतं निर्माणचित्तं सहजामिति यश्चित्तचैतसिक: विक्रीडनार्थं निर्माणं निर्मे मीयते / सत्त्वहितार्थं तु कुशलं वेदितव्यमिति // निदर्शनतः कुशलादिकं यबुद्धादयो विनेयार्थवशात्संदर्शयन्ति" / अकु[श]लस्य कथं संदर्शनम् / चोरादि निर्माय तदन्यसत्त्वभीषणार्थं कर[T. 27 A] चरणशिरश्छेदादिसंदर्शनात् / / 5 37 A अवीतरागस्येति प्रदेशवैराग्येणाप्ययुक्तस्याऽसमाधिलाभिन इत्यर्थः / इतरथा ह्यनागम्यं काम प्रतिसंयुक्तं प्राप्नुयात् / सह समाधिलाभात् प्रहाणाभिरतिविपक्षभूतस्य दौष्टु [ल्य]स्य प्रहाणात् प्रदेशवैराग्यमस्तीति वेदि. तव्यम् / बाह्यं त्विह रूपादिकमवीतराग 1°कर्माधिपत्यनिर्वत्तत्वात् कामप्रति. संयुक्तम् / सर्वसत्त्वसाधारणकर्माधिपत्यसंभूत12 वचनमवीतरागकर्मणा रूपारूप्यावचरेष्वपि वीजिनोऽस्तित्वात् / [Ch. 710B] चत्वारो धातवो गन्धरसघ्राणजिह्वाविज्ञानधातवः / द्वे आयतने गन्धरसायतने / तदन्येषामे कदेशः रूपारूप्यावचरानास्रववर्ज:14। ___$ 37B. चतुरो धातून द्वे चायतने स्थापयित्वा s[Ms. 28A]नन्तरोक्तानि / तदन्येषां स्कन्धधात्वायतनानामेक[AS. P. 25] देशः कामरूप्या 5वचरानास्रववयः। 1. T. °ख्ये इति for °ख्यायेति. 2. T. adds here परिग्रहतोऽव्यात इति शिल्पस्थानस्याभ्यस्तस्य वासनेन त द्रूपात्मभावपरिग्रहात् / In Ch. This is the portion of original text, See As(g). p 24. 3. As. (8) omits अधिगम'. 4. Ms. h. Cf. As. (8). p. 24. 5. As. (6). त्त. 6. Ms. में। 7. Ms. ति। 8. Ms. मं। 9. Ms. ह्य। 10. Ms. ध। 11. Ms. ध / 12. Ch. adds सूत्र / 13.. T. adds स्कन्धधात्वायतनानाम् / 14. Ms. W deleted into ज / 15. Ms. रूपा for आरूप्या / .