________________ लेक्षणसमुच्चयः दित उत्पादात् / अन्वयज्ञानमूर्ध्वज्ञानम्, धर्मज्ञानादूर्ध्वमुत्पादात् / विदूषणायासमुत्थापनायानुत्पादे ज्ञाने निष्ठायां महार्थेषु ज्ञानं तद्विदूषण'ज्ञानं यावन्महार्थज्ञानमिति योजयितव्यम् / महार्थत्वं पुनः स्वपरार्थत्वात // $ 21 B. [As. P. 17] *-तत्र (i) अविकल्पनतः पञ्चभिर्विज्ञानकायैः / -* (ii) विकल्पनतः मनोविज्ञानेन / (iii) हेतुत आलयविज्ञानम् / (iv) प्रवृत्तितस्तदन्यद्विज्ञानम् (v) निमित्त त इन्द्रियार्थाः / (vi) नैमित्तिकतो विज्ञानानि / (vii) विपक्षप्रतिपक्षतः सरागं विगतरागं सद्वेषं विगतद्वेषमित्येवमादि / (viii) सूक्ष्मप्रभेदतः सप्तविधदुर्विज्ञान विज्ञप्तिभेदात् / सप्तविधा दुर्विज्ञाना विज्ञप्तिस्तद्यथा (a) असंविदितविज्ञप्ति: भाजनविज्ञप्तिः, सर्वकालम. परिच्छिन्नाकारत्वात् [Ms. 21 B] (b) चित्राकार[Ch. 705 c] विज्ञप्तिरेकस्यानेक आकारो विचित्रश्चेति दुर्व्यवस्थापनादस्याः सूक्ष्मत्वम् / (c) सहभावविज्ञप्तिरेककालोत्पन्नानि विज्ञानानि कथं पृथग्यथास्वं [T. 20 B] विषयं परिच्छिन्दन्ती ति दुर्व्यवस्थापनात्सूक्ष्मत्वम् / सूक्ष्मत्वमिति सर्वत्राधिकृतं वेदितव्यम्। (d) विपक्षप्रतिपक्षलघुपरिवत्तिविज्ञप्तिः कथं रागादिसमस्तवन्धनं चित्तं तन्मुहुरेव सकृद्वीतरागादिकं भवतीति / (e) वासनाविज्ञप्तिः कथं कर्मभिः समुदाचरद्भिः चित्तं वास्यते, न च तस्मादन्या सा वासना, नापि तन्मात्रमेव, फलदानं च प्रति क्रमेण वृत्तिलाभ इति / (1) प्रतिसंधिविज्ञप्तिः कथमनेकप्रकारात्मभावनिर्वर्तककर्मपरिभावितं सद्विज्ञानं तथाप्यपरि स्फुटायां मरणावस्थायां सहसा प्रबुद्धयान्यतरकर्मवासनामन्यतरस्यां गतौ प्रतिसंधि बध्नातीति / (g) मुक्तविज्ञप्तिः कथमहतश्चित्तं परमं निष्प्रपञ्चं धर्मताप्राप्त संसारोचितसर्वप्रकारसाश्रवचयाँ समतिकान्तमनेनाकारेण वर्तत इति दुर्व्यवस्थापनादस्याः सूक्ष्मत्वं वेदितव्यम् / द्रष्टादिग्रहणेन द्रष्टा श्रोता घ्राता स्वा[Ms. 22A]दयिता स्प्रष्टा ' 'विज्ञाता चेत्येषां ग्रहणं वेदितव्यम् / - $ 21C. अभिज्ञयं पण्णामभिज्ञानां विषय / (i) गमनविशेष प्रभावितत्वा[T. 21A]दृद्धयभिज्ञायास्तद्विषयस्य संक्रान्तितोऽभिज्ञेयत्वम् / (iii) 1. Ms. णा. See As(g). P. 19. 2-2. "तत्र''कायैः / " is in the bottom margin of Ms. T. omits this marginal portion. 3. Ms. त्ति See As(g). P. 19. 4. T. and Ch. एक for अनेक. 5. Ms. ती. 6. Ch. अन्यपरि° for अप्यपरि T. supports Ms. 7. Ms. विषय for विशेष / 8. T. and Ch, add (ii) श्रोत्राभिज्ञायाः विविधशब्दपरिज्ञातोऽनुश्रवतः /