SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 22 अभिधर्मसमुच्चयभाष्यम् सरागादिनिमित्तज्ञानाच्चरितप्रवेशात् / (iv) अतीत जन्मपरंपरागमनज्ञानादागतितः। (v) अनागतोत्पत्तिगमनज्ञानात् गतितः / (vi) त्रैधातुकनिर्मोक्षोपायज्ञानान्निसरणतः / सर्वाण्यभिज्ञ यान्यन्त्यानां तिसृणां सर्वविषयत्वात् / / 22A[Ch. 706A] तत्र (i) रूपीतिरूपं तस्य धर्मस्यात्मस्वभावस्तस्मादसौ रूपी, न तु रूपान्तरेण युक्तत्वात् / यावदुक्तं स्याद्रूपस्वभाव इति / (ii) भूताश्रयतोऽपोति रूपान्तर योगादपि रूपित्वमिति दर्शयति, उपादाय. रूपस्य भूतरूपेण योगाद्भतरूपाणां च परस्परमि ति / (iii) नान्दीसमुदय इति नान्येव यस्य समुदयस्तद्रूपि, न तु यथा वेदनादीनां पूर्विका च नान्दी समुदयः, . प्रत्युत्पन्नश्च स्पर्शादिरिति / (iv) सप्रदेशत: सावयवत्वात् / (v) देशव्याप्तितो दिक्षु प्रत्यास्परणात् / (vi) [T. 21B] देशोपदेशतो [Ms.22B] ऽमुष्यां दिशीति व्यवदेष्टुं शक्यत्वात् (vii) देशगोचरतः कस्मिश्चित्प्रदेशे स्थितस्यालं. बनीभावात् / (viii) द्वयसमगोचरतः सत्त्वद्वयस्य सममालंवनीभावान्न त्वेवमरूपिणो यथात्मानुभवं परैः परिग्रहीतुमशक्यत्वादिति / (ix) संबन्धतश्चक्षुविज्ञानादीनामपि" पर्यायेण रूपित्वम्, रूपीन्द्रियसंबन्धात् / (x) अनुबन्धत आरूप्याणां पृथग्जनानां रूपवीजानुबन्धात् / (xi) प्ररूपणतो वितर्कविचाराणामालंबनप्ररूपणात् / (xii) व्याबाधनतः पञ्चानां स्कन्धानां पाण्यादिसंस्पर्शः शोकादिभिश्च यथायोगं रूपणात् बाधनादित्यर्थः / (xiii) संप्रापणतो देशनाया अर्थनिरूपणात् / (xiv) संचयव्यवस्थानतः परमाणोरूर्ध्वरूपस्य सावयवव्यवस्थानात् / (xv) बहिर्मुखत: कामावचरस्य रूपस्य कामगुणतृष्णासंभूतत्वात् / (xvi) अन्तर्मुखतो रूपावचरस्य रूपस्य समापत्तिचित्ततृष्णासंभूतत्वादत [T. 22A] एवास्य मनोमयत्वं वेदितव्यम् / (xvii) आयततः पृथग्जनस्य पूर्वान्तापरान्तयोः पर्यन्तव्यवस्थानाभावात् / (xviii) परिच्छिन्नत : [Ms. 23A] शैक्षस्य रूपस्य पर्यन्तीकृतसंसारत्वात् / (xix) तत्कालतोऽशैक्षरूपस्य प्रत्युतत्पन्नभवमात्रावशेषात् / (xx) 1. Ms. प। 2. Ch. रूपितदात्मत इति / 3. Ms. रा। 4 Ms. adds त / 5. Ch. adds योगाद् रूपित्वम् / 6. The प्र of प्रत्यास्परणात् appears as सू in Ms. स्परण is probably an equivalent of FSTT. The word will then mean "pervasion In this connection we are reminded of the word TEUTETTU which also conveys the same idea. See BHSD. But in T. कायेन स्फरणात् Ms. fafafa with fe deleted. 8. T. omits विचार / 9. Ms. र्व।
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy