SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 20 अभिधर्मसमुच्चयभाष्यम् ख्यानाद्वेदितव्यम् / एतेषां पुनः सूत्रपदानामर्थ आत्मशुचिसुखनित्यविपर्यासप्रतिपक्षण यथाक्रममनात्मता'मुपादायेत्येवमादिभिः पदैर्वेदितव्यः / / 618. [As. P. 16] कथं कति किथिभिरिति प्रश्नत्रयव्यवस्थापन लक्षणवस्तुसंमोहयोः समारोपस्य च प्रहाणार्थम् / / 6 19A. तत्र कथं [Ms. 20B] द्रव्यसदिति द्रव्यसतो लक्षणनिर्देशन तत्संमोहः प्रहीयते / सर्वाणि द्रव्यसन्तीत्यनेन वस्तुसंमोहः प्रहीयते प्रात्मद्रव्याभिनिवेशत्याजनार्थमित्यनेन समारोपः प्रहीयते / एवमन्यत्रापि योज्यम् / अभिलापनिरपेक्ष इन्द्रियगोचरस्तद्यथा रूपं वेदनेत्येवमादिकं नाम्नाऽचित्रयित्वा यस्यार्थस्य ग्रहणं भवति / [ch: 705A] तदन्यनिरपेक्षस्तद्यथार्थान्तरमनपेक्ष्य यत्र तदबुद्धिभवति / न यथा घटादिषु रूपादीनपेक्ष्य घटादिबुद्धिरि[T. 19 B]ति / / $ 20A. संक्लेशालंबनं संवृतिसत् संक्लेशवृत्त्यर्थेन / प्रात्मा संक्लेशस्य निमित्तमित्यभिनिवेशत्याजनार्थम् // 620B. विशुद्धये आलंबनं परमार्थसत् परमज्ञानगोचरार्थेन / सर्वाणि परमार्थसन्तीतिति तथताऽव्यतिरेकात्सर्वधर्माणाम् / / 621 A, येन संक्लिश्यते व्यवदायते चेति रागादिभिश्चंतसिकः श्रद्धादिभिश्चेति वेदितव्यम् / या च तत्रावस्थेति रूपचित्तचैतसिकाव Ch. 705 B] स्थासु प्रज्ञप्ताश्चित्तविप्रयुक्ताः संस्काराः। यच्च व्यवदानमित्यसंस्कृतं व्यवदानं वेदितव्यम। तच्च यथायोगम्। पुनस्त्रयोदश विधस्य विज्ञानस्य यो विषयः तज्ज्ञेयमनेन प्रशितम्। तत्पुनः (i) श्रुतमयं ज्ञानं (ii) चिन्तामयं ज्ञानं (iii) लौ[Ms. 21 A]किकभावनामयं ज्ञानं (iv) परमार्थज्ञानं (v) परचित्तज्ञानं (vi) धर्मज्ञानम् (vii) अन्वयज्ञानं (viii) दुःखज्ञानं (ix) समुदयज्ञानं (x) निरोधज्ञानं (xi) मार्गज्ञानं (xii) क्षयानुत्पादज्ञानं (xiii) महायानज्ञानं च / एतेऽन्ये च यथाक्रममधिमुक्ति ज्ञानादीनि वेदितव्यानि / तत्र परचित्तज्ञानं परात्म ज्ञानम, परात्म[T. 20 A] चित्तविषयात् / धर्मज्ञानमधरज्ञानम्, सत्येष्वा 1. Ms. आत्मसत्ता for अनात्मता. 2. Ms. ती. 3. Ms. ती. 4. T. and Ch. omit यत्र. 5. T. omits व्यवदानं. 6. T. and Ch. omit अनेन प्रदर्शितम. 7. T. and Ch. omit ऽन्ये च. 8. Ms. adds fa. 9. Ms. परमा + one illegible syllable. See As(8) P..19.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy