________________ लक्षणसमुच्चयः व्याध्युपहतेन चक्षुषा नीलादिरूपेष्वपि पीतदर्शनमेव भवतीति / (c) चक्षुषो विज्ञानं चक्षुर्विज्ञानम्, विज्ञानबीजानुबन्धाच्चक्षुषस्तन्निवत्तेः / (d) चक्षुषे विज्ञानम्, तस्मै हिताहित] 'त्वात् / तथाहि विज्ञानसंप्रयुक्ते[Ms. 18 A]नानुभवेनेन्द्रियस्यानुग्रह उपघातो वा भवति, न विषयस्येति / (e) चक्षुर्विज्ञानं चक्षुर्विज्ञानम्, उभयोः सत्त्वसंख्यातत्वात् न त्ववश्यं रूपस्येति // (vii) किं तावच्चक्षु रूपाणि पश्यतीति वेदितव्यमथ विज्ञानम् / नकं नापरं पश्यतीति वेदितव्यम, निर्व्यापारत्वात् धर्माणाम् / सामग्रयां तु सत्यां दर्शनप्रज्ञप्तिः। अपि खलु षड्भिराकारैः चक्षुषो रूपदर्शने प्राधान्यं वेदितव्यं न विज्ञानस्य / ' कतमः षड्भिः / (a) उत्पत्तिकारण (त):, चक्षुषस्तदुत्पत्तेः / (b) तत्पदस्थानतः, दर्शनस्य चक्षुराश्रयणात् / (c) अचल [T. 17 A]वृत्तितः, चक्षुषो नित्यमेकजातीयत्वात् / (d) स्वतन्त्रवृत्तितः, प्रतिक्षणमुत्पत्तिप्रत्ययसामग्रयनपेक्षत्वात् / (e) शोभावृत्तितः, तेनाश्रयशोभनात् / (f) आगमतः, "चक्षुषा रूपाणि दृष्ट्वे"ति वचनात् / एतच्च यथोक्तं सर्वं विज्ञानस्य न संभवतीति / चलवृत्तित्वं त्वस्य बहुप्रकारोत्पत्तितो वेदितव्यम् / / (viii) यथा धातुष्वायतनेषु चासंस्कृतं व्यवस्थापितमेवं कस्मान्न स्कन्धेष्वपि व्यवस्थापितम्। स्कन्धार्थासंभवात् / रूपादीना[Ms. 18 B]मतीतादिप्रकाराभिसंक्षेपेण राश्यर्थः स्कन्धार्थो निर्दिष्टः / स च नित्यस्य न संभवतीति न स्कन्धेष्वसंस्कृतव्यवस्थानम् / / - (ix) केन कारणेन त एव धर्मा स्कन्धधात्वायतनमुखैः पृथग्देशिताः / विनेयानां समासव्यासनिर्देशकौशल्योत्पादनार्थम् / तथाहि स्कन्धनिर्देशे ये रूपविज्ञाने समासेन निर्दिष्टे ते धात्वायतनेष्वेकादशधा10 सप्तधा च भित्त्वा11 व्यासेन .. 1. Ms. वर्तेः . 2. T. and Ch. adds चक्षुर्विज्ञानम्. 3. T. omits अहित. 4. T. omits उपघातो. 5. T. means "विज्ञान Corresponding to चक्षुः", Ch. means "विज्ञान which is like चक्षुः". 6. Here Ch. adds " यथा चक्षुर्विज्ञानमेवमन्यानि विज्ञानानि". 7. Here Ch. adds "Therefore, we may say that चक्षुः sees रूप". 8. Ms. appears थे. . Ms. तु. 10. Ch. दशधा for एकादशधा. 11. Ms. appears अभित्त्वा for भित्त्वा. T. विवृत्य.