________________ 18 अभिधर्मसमुच्चयभाष्यम् निर्दिष्टे यथायोगम् / ये तु तत्र वेदनादयो व्यस्ताः ते धात्वायतनेषु धर्मधात्वायतनत्वेन समस्ता इति / ' अपि खलु लक्षणमात्रव्यवस्थानतः स्कन्धनिर्देशः, [Ch. 703 C] ग्राह्यग्राहकग्रहणव्यवस्थानतो [T. 17 B] धातुनिर्देशः, ग्रहणाय द्वारभूतस्य ग्राह्यग्राहकमात्रस्य व्यवस्थानत आयतननिर्देशो वेदितव्यः। समाप्तमानुषंगिकम् // 6. 13 (i) अतः परं मूलग्रन्थस्यैवार्थनिर्देशो द्रष्टव्यः / अर्हतश्चरमं चक्षुः परिनिर्वाणकाले पश्चिमम / तन्न धातः, चक्षरन्तरस्याहेतृत्वात / प्रारूप्योपपन्नस्य पृथग्जनस्य चक्षुर्हेतुरिति ततः प्रच्युत्य रूपिणि धाता पपद्यमानस्य यस्मादालयविज्ञानसंनिविष्टाच्चक्षुर्वीजाच्च क्षुनितिष्यते, न त्वार्यस्य पुन[Ms. 19A]रनागमनादिति // (ii-v) कायधातुन काय आरूप्योपपन्नस्य पृथग्जनस्य यः कायधातुरित्येतदत्र वक्तव्यम्, अण्डगतादीनां कायसंभवात प्रनष्टकायस्य चाजीवि[त] स्वादिति // (vi) [As. P. 14] स्यान्मनोधातुर्न मन इत्यत्रासंज्ञिसमापन्नस्याग्रहणम्, क्लिष्टमनःसद्भावात् / / 6. 14. जातो भूतः निर्वृत्ति वृद्धि चाधिकृत्य यथाक्रमम् / / [Ch. 704A] प्रारूप्यावचरेण मनसाऽरूप्यावचरान् स्वभूमिकाननानवांश्च धर्मान् विजानातीत्यार्यश्रावकमधिकृत्य / बाह्यकः पृथग्जनः स्वभूमिकानेव विजानातीति / इहधार्मिकस्तु कश्चित्पूर्वश्रुतपरिभावनावशादूर्ध्वभूमिकानप्यालंबते तदुत्पादना. [T. 18A]र्थम्।। 6. 15. (i) यथा रूपं तथानुभव इति सुखादिवेदनीयादिन्द्रियार्थद्वयात्सुखादिवेदनोत्पत्तेः। यथा वेदयते तथा संजानीत इति यथानुभवं निमित्तोद्ग्रहणात् / यथा संजानीते तथा चेतयति यथासंज्ञं कर्मा भिसंस्करणात् / यथा चेतयते तथा विज्ञानं तत्र तत्रोपगं भवतीति यथाभिसंस्कारं' विषयेषु गत्यन्तरेषु च विज्ञानपरिणामात् // 1. Ch. संस्कृतधर्मलक्षण. 2. Ms. °मरं for °रमं. 3. Ms. adds नः. 4. Ms. प. 5. Ms. मु. 6. च्चक्ष/जा is in bottom margin, and Ms. श्च for च्च. 7. T. drops कर्म. 8. Ms. रि. T. र°But Ch. supports our reading. 9. Ms. adds य.