________________ अभिधर्मसमुच्चयभाष्यम् शब्दस्योच्छेदित्वान्न देशान्तरेष्वपरापरोत्पत्तिसंतानेन देशान्तरगमनमस्ति किंतर्हि सकृत् / यथा स्वप्रदे[Ms. 17 A] शमवष्टभ्य प्रदीपप्रतानवत् शब्दप्रतानस्योत्पादो द्रष्टव्यः। यत्त्वासन्नतिरस्कृतस्य शब्दस्यास्पष्टं श्रवणं भवति तच्छब्दस्य प्रतिघातित्वादावरणसौषिर्य स्वल्पोक्ति तो वेदितव्यम् / / (v). षण्णां विज्ञानानां कति विज्ञानानि सविकल्पकानि कत्यविकल्पकानि / त्रिभिस्तावद्विकल्पः मनोविज्ञानमेकं सविकल्पकम् / त्रयो विकल्पाः स्वभावविकल्पोऽनुस्मरणविकल्पोऽभिनिरूपणाविकल्पश्च। तत्र (A) स्वभावविकल्पः प्रत्युत्पन्नेषु संस्कारेष्वनुभूयमानेषु यः स्वलक्षणाकारो विकल्पः / (B) अनुस्मरणविकल्पो योऽनुभूतपूर्वसंस्काराकारः / (C) अभिनिरूपणाविकल्यो योऽतीतानाग[T. 16 A]तप्रत्युत्पन्नेषु विपरोक्षेष्वभ्यूहनाकारो विकल्पः / / अपि . खलु सप्त विकल्पाः (a) आलंबने स्वरसवाही विकल्पः (b) सनिमित्तो (c) ऽनिमित्तः (d) पर्येषकः (e) प्रत्यवेक्षकः (f) क्लिष्टो (g) ऽक्लिष्टश्च विकल्पः / तत्र (a) प्राद्यो विकल्पः पञ्च विज्ञानकायाः, अचित्रयित्वालंबनं यथास्वं विषयेषु स्वरसे नव वहनात् / (b) सनिमित्तः स्वभावानुस्मरणविकल्पो वर्तमानातीतविषय चित्रीकरणात् / (c) अनि[Ms. 17 B]मित्तोऽनागतविषयो' मनोरथाकारो विकल्पः / (d-g). शेषा अभिनिरूपणाविकल्पस्वभावा वेदितव्याः / तथाह्य कदाऽभ्यूहमानः पर्येषते, एकदा प्रत्यवेक्षते, एकदा क्लिष्टो भवति, एकदाऽक्लिष्ट इति / (vi) यदा रूपादिप्रतिविज्ञप्तिकं विज्ञानं तत्केन कारणेन चक्षुरादिविज्ञानमित्युच्यते न रूपादिविज्ञानमिति / पञ्चविधविग्रहोपपत्तेः रूंपादिवचनानुपपत्तिः। कथ[Ch. 703 B] मिति। (a) चक्षुषि विज्ञानं चक्षुर्विज्ञानम्, आश्रयदेशे विज्ञानोत्पत्तितः, सति च तस्मिस्तद्भावात् / तथाहि सति चक्षुषि [T. 16 B] चक्षुर्विज्ञानमवश्यमुत्पद्यते अनन्धानामनन्धतोऽन्धकारस्यापि' दर्शनात् / न रूपे सत्यवश्यम्, अन्धानामदर्शनादिति / (b) चक्षुषा विज्ञानं चक्षुविज्ञानम्, तद्वशेनाविकृतेऽपि रूपे विज्ञानस्य विक्रियागमनत्वात् / तद्यथा कामल 1. T. omits किंतहि सकृत्. 2. Ms. यं. 3. Ms. illegible. 4. Ms. स. 5. Ms. त्त. 6. Ms. यः, T. ये. 7. T. and Ch. °विषय° Ms. °विषययो. 8. Ch. omits अनन्धतो. 9. T. and Ch. °कारेऽपि for °कारस्यापि.