________________ लक्षणसमुच्चयः वेदनादिसाधारणत्वात / तस्माद्रूपस्यैव विपर्यये [Ms. 16A]णेत्युच्यते / अभावलक्षणवचनेन [Ch. 702C]वेदनादीनामरूपिणां पर्युदासः / न हि तेऽभावलक्षणा इति / (v-viii) यो निरोधो न च विसंयोग इत्यनुशयासमुद्धातात्। विपर्ययाद्विसंयोगः // द्वयमिदं प्रहातव्यम्-क्लेशाश्च तदाश्रयभूतं च वस्तु' वेदितम् / तत्पुनर्वेदितं द्विविधम्-वैकारिकमवैकारिकं च, सुखदुःखमदुःखासुखं च यथाक्रमम् / तत्र क्लेशप्रहाणात् . प्रतिसंख्यानिरोधव्यवस्थानम् / द्विविधवेदितप्रहाणाद्यथाक्रममानिञ्ज्यस्य संज्ञावेदयितनिरोधस्य च व्यवस्थानम् / तत्र क्लेशप्रहाणं तत्प[T. 15A]क्षदौष्ठुल्यापगमादाश्रयपरिवृत्तिः, वेदितप्रहाणं तत्प्रतिपक्षभूतायाः समापत्तेरावरणापगमादाश्रयपरिवतिः। अत एव द्वितोये ध्याने दुःखनिरोधस्यासंस्कृता[व्य]वस्थानम्, वैकारिकस्य वेदितस्याशेषमप्रहाणात् / / $ 11. रूपस्कन्धेन दशरूपिणो धातवः संग्रहीताः, धर्मधातुना स एव, मन आयतनेन सप्त विज्ञानधातव इत्येवं सर्वधर्मास्त्रयो भवन्ति / 5 12.2 एवं व्यवस्थापितेषु स्कन्धधात्वायतनेष्वानुषंगिकमेतद्वय त्पाद्यते॥ ___ (i). चक्षुःश्रोत्रघ्राणानां प्रत्येकं द्वित्वे सति कथं धा[Ms. 16 B] तूनां नैकविंशतित्वम् / यद्यपि चैषां द्वित्वं न तु धात्वन्तरत्वम्, लक्षणसाधर्म्यणोभयोश्चक्षुर्लक्षणत्वात्, कृत्यसाधयेणोभयोश्चक्षुर्विज्ञानकृत्यत्वात् / एवं श्रोत्रघ्राणयोर्योज्यम् / द्वयोर्द्वयोस्तु निवृत्ति राश्रयशोभार्थम् / एवं सुविभक्तसमोभयपार्श्व आश्रय: शोभनो नान्यथा / / (ii) [Ch. 703 A] किमेकैकमेव चक्षुनिश्रित्य चक्षुविज्ञानमुत्पद्यते नित्यमाहोस्विद्वे. अपि। द्वे अपीत्युच्यते, स्पष्टग्रहणात् / यथा द्वयोश्चक्षुषोरुन्मिषितयोः रूपग्रहणं स्पष्टं भवति न तथैकस्मिन्नेवेति / तद्यथा एकस्मिन्नपवरके द्वयोः प्रदीपयोरेकं प्रभाप्रतानं स्पष्टतरं द्वौ प्रदोपौ [T. 15 B] निश्रित्य वर्त्तते / तद्वदत्रापि नयो द्रष्टव्यः / / (iii). एककेनेन्द्रियद्वारेण विचित्र विषयप्रत्युपस्थाने तत्प्रकारेषु कि क्रमेण विज्ञानान्युत्पद्यन्ते आहोस्तिद्युगपदेकम् / युगपदेकमेव विचित्राकारं विज्ञानं वेदितव्यम् / जिह्वासंप्राप्ते कवडे जिह्वाकायविज्ञानयोनित्यं युगपदुत्पत्ति।. दितव्या / 1. T. & Ch. omit. वस्तु. 2. T. Chapter II. 3. Ms. वृत्ति for वृत्ति. ___4. Ms. adds two illegible syllables. 5. T. and Ch. कवडींकाराहारे.