________________ अभिधर्मसमुच्चयभाष्यम् समापत्तितो निरोधसमापत्तेः शान्ततरत्वं [T. 14 A] तदसमुदाचारादेव वेदितव्यम् / समनन्तरनिरुद्धं मनोऽनुमतमिति कृत्वाऽनन्तरं मतमित्यर्थः // ___89 D. विज्ञानस्याश्रयत आलंबनतः स्वभावतश्च व्यवस्थानं वेदितव्यम् // 10 A. धात्वायतनानां नास्ति पृथग्लक्षणव्यवस्थानम्, स्कन्धनिर्देश एव चक्षुरादीनामुक्त लक्षणत्वात् / तस्मात्स्कन्धेभ्य एव निष्कृष्य धातवो व्यवस्थाप्यन्ते, धातुभ्य आयतनानि / / $ 10B. यत्तु स्कन्धरसंगृहीतमसंस्कृतं [Ch. 702B] तदष्टधा व्यवस्थाप्य इति / तथतायास्त्रविध्यमाश्रयप्रकारभेदान्न स्वभावभेदादिति वेदि[Ms. 15B]तव्यम् / (i) अनन्यथीभ[rjवता सदैव भाव[1]नां निरात्मतया द्रष्टव्या। संक्लेशा[As. P. 13]प्रचारतामुपादायेति तेनालंबनेन संक्लेशवस्तुनः संक्लेश शून्यीकरणात् / यदापि संक्लिष्टेत्युच्यते तदाप्यागन्तुकस्तत्रोपक्लेशो वेदितव्यः / 5-कतमः पुनरागन्तुकस्तत्रोपक्लेशः / अनपोद्धतग्राह्यग्राहकबीजस्य परतन्त्रचित्तस्य द्वयाकारा प्रवृत्तिः।- न धर्मता चित्तस्य। प्रकृतिप्रभा स्वरा हि सर्वधर्माणां धर्मतेति / निमित्तानि रूपं वेदना यावद्बोधिरिति प्रपञ्चितानि, तेषां तत्रोपशमादनिमित्तम्। भूतं यदविपरीतम्, तस्य कोटि: पर्यन्तः,' नैरात्म्यात्परेण तत्त्वापर्येषणात् / (iv) आकाशं रूपाभाव इति रूपस्यव विपर्य[T. 14B] येणाभावलक्षण) यो धर्मो मनोविज्ञानविषयस्तदाकाशम / मनोविज्ञानविषयत्व पुनः धर्मधात्वधिकारत्वेन वेदितव्यम् / रूपस्यैवेत्यवधारणाद्वेदनादिसाधारणास्तथताऽप्रतिसंख्याप्रतिसंख्यानि[रो] धानित्यताः . पर्युदास्यन्ते / शशविषाणादीनामत्यन्तमभावो न तेषां विपर्ययेण विज्ञायते / यस्मात्त एवात्यन्तं न संभवन्तीति / तेऽपि शशविषाणादयो नास्यैव विद्यमानस्य रूपस्य विपर्ययेण,11 1. T. and Ch. असंज्ञि'... 'शान्ततरत्वात्तदसमुदाचारः वेदितव्यः. 2. T. उप for उक्त, 3. T. तस्य or तस्मिन्. 4. T. omits वस्तुनः संक्लेश. Ch. omits संक्लेश. 5....5. "कतमः "चित्तस्य" in the bottom margin of Ms. T. omits this portion. 6. ASV (T). त्तेः. 7. Ms. °न्ततो for °तः. 8. Ms. र्येष° for °र्यये. 9. Ch. धर्माणाम्. 10. Ms. ती. 11. Ms. णा.