SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ लक्षणसमुच्चयः 13 सास्रवम्, लौकिकानन्तरं लोकोत्तरम्, लोकोत्तरानन्तरं लौकिकम् / न च तेषां तथा बीजत्वं युज्यते / दीर्घकालसमुच्छिन्नापि च संततिश्चिरेण कालेन प्रवर्तते, तस्मादपि न युज्यते / / (v) केन कारणेनासत्यां यु[Ms. 14 B]गपद्विज्ञानप्रवृत्तो कर्म न संभवति / तथाहि समासतश्चतुर्विधं कर्म-भाजनविज्ञप्तिराश्रयविज्ञप्तिरहमिति विज्ञप्तिविषयविज्ञप्तिश्चेति / एता विज्ञप्तयः क्षणे क्षणे युगपत्प्रवर्तमाना उपलभ्यन्ते / न चैकस्य विज्ञानस्यैकस्मिन् क्षणे इदमेवंरूपं व्यतिभिन्नं कर्म युज्यते / / (vi) केन कारणेनासत्यालयविज्ञाने कायिकोऽनुभवो न युज्यते / तथाह्यकत्यस्य योनिशो वाऽयोनिशो वा चिन्तयतो' वा[T. 13 B]ऽनुवितर्कयतो वा समाहितचेतसो वाऽसमाहितचेतसो वा ये काये कायानुभवा उत्पद्यन्तेऽनेकविधा बहुनानाप्रकारास्ते न भवेयुरुपलभ्यन्ते च / तस्मादप्यस्त्यालयविज्ञानम् / / (vii) केन कारणेनासत्यालयविज्ञानेऽचित्ता समापत्तिन संभवति / तथाह्य संज्ञिसमापन्नस्य वा निरोधसमापन्नस्य वा विज्ञानमेव कायादपक्रान्तं स्यात् / नानपक्रान्स' ततः काल क्रियव भवेत् / यथोक्तम् भगवता--"विज्ञानं चास्य कायादनपक्रान्तं भवती"ति / / (viii). केन कारणेनासत्यालयविज्ञाने च्युतिरपि न युज्यते / तथाहि च्यवमानस्य विज्ञान[Ch. 702 A] मूर्खदेहं वा शोतिकुर्वन् विजहाति, अधोदे. [Ms. 15 A]हं वा / न च मनोविज्ञानं कदाचिन्न प्रवर्तते / अतोऽप्यालयविज्ञानस्यैव देहोपादान कस्य विगमाद्देहशीतता उप[ल]भ्यते देहाप्रतिसंवेदना च / न तु मनोविज्ञानस्य / अतोऽपि न युज्यते / / . 9 C. मनो निर्वचनत प्रालंबनतः संप्रयोगतः प्रवृत्तिकालतश्च निर्दिष्टं वेदितव्यम् / मार्गसंमुखीभावे तदभावः, परमार्थ ज्ञानस्यात्मदृष्टिसमुदाचारेणात्यन्तविरोधात् / तदूर्ध्वमालयविज्ञानात्प्रवृत्तिः, शैक्षस्यापहीणत्वात् / असंज्ञि 1. It means प्रवृत्तिविज्ञानानां बीजत्वं न युज्यते. .... 2. Ch. adds here ''Therefore Certainly Vijnanas occure together". 3. T.चिन्तयतो, Ch. अचिन्तयतो. 4. T. and Ch. कायिक for काये काय. 5. Ch. adds here असत्यालयविज्ञाने. 6. Ch. adds असत्यालयविज्ञाने. 7. T. नापक्रान्तं (?) Ch. यदि विज्ञानं कायादपक्रान्तं. 8. Ms. T or 9. 9. Ms. adds fa.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy