________________ अभिधर्मसमुच्चयभाष्यम् i. केन कारणेनाश्रयोपादानं न युज्यते / पाह-पञ्चभिः कारणः / तथाहि (a) आलयविज्ञानं पूर्वसंस्कारहेतुकम् / चक्षुरादिप्रवृत्तिविज्ञानं पुनर्वर्तमानप्रत्ययहेतुकम् / यथोक्तम्-इन्द्रियविषयमनस्कारवशाद्विज्ञानानां प्रवृत्तिर्भवतीति विस्तरेण / इदं प्रथमं कारणम् / अपि च (b) कुशलाकुशलाः षड्विज्ञान[Ms. 13B]काया उपलभ्यन्ते / इदं द्वितीयं कारणम् / अपि च (c) षण्णां विज्ञानकायानां सा जाति!पलभ्यते याऽव्याकृतविपाकसंगृहीता [T. 12B] स्यात् / इदं तृतीयं कारणम् / अपि च (d) प्रतिनियताश्रयाः षड्विज्ञानकाया: प्रवर्तन्ते, तत्र येन येनाश्रयेण यद्विज्ञानं प्रवर्तते तदेव तेनोपात्तं स्यादवशिष्टस्यानुपात्ततेति न युज्यते, उपात्ततापि न युज्यते विज्ञानविरहिततया। इदं चतुर्थ कारणम् / अपि च (e) पुनः पुनराश्रयस्योपादान'दोषः प्रसज्यते / तथाहि चक्षुर्विज्ञानमेकदा प्रवर्तते एकदा न प्रवर्तते एवमवशिष्टानि / इदं पञ्चमं. पलंभतोऽपि प्रतिनियताश्रयतोऽपि पुनः पुनरु- पादानदोषतोऽपि न युज्यते // (ii) केन कारणेनाऽदिप्रवृत्तिसंभवो न युज्यते / स चेत्कश्चिद्वदेद्यद्यालयविज्ञानमस्ति तेन द्वयोः विज्ञानयोः युगपत्प्रवृत्तिर्भविष्यति / स इदं स्याद्वचनीयःअदोष एव भवान्दोषसंज्ञी / तथाहि भवत्येव द्वयोविज्ञानयोयुगपत्प्रवृत्तिः / तत्कस्य हेतोः। तथाटक त्यस्य युगपद्रष्टुकामस्य यावद्विज्ञातुकामस्यादि [ Ms. 1 4A]त इतरेतरविज्ञानप्रवृत्तिर्न युज्यते / तथाहि तत्र मनस्कारोऽपि निविशिष्ट इन्द्रियमपि विषयोऽपि // .. (iii) केन कारणेनासत्यां युगपद्विज्ञानप्रवृत्तौ [Ch. 701 C] मनोविज्ञानस्य चक्षुरादिविज्ञान सहानुचरस्य स्पष्टत्वं न संभवति / तथाहि यस्मिन् समये [T. 13 A]ऽतीतमनुभूतं विषयं समनुस्मरति तस्मिन् समयेऽविस्पष्टो मनोविज्ञानप्रचारो भवति न तु तथा वर्तमानविषयो मनःप्रचारोऽविस्पष्टो भवति / अतोऽपि युगपत्प्रवृत्तिर्वा युज्यतेऽविस्पष्टत्वं वा मनोविज्ञानस्य / / (iv) केन कारणेन बीजत्वं न संभवतिः षण्णां विज्ञानकायानामन्योन्यम् / तथाहि कुशलानन्तरमकुशलमुत्पद्यते, अकुशलानन्तरं कुशलम्, तदुभयानन्तरमव्याकृतम्, हीनधातुकानन्तरं मध्यधातुकम्, मध्यधातुकानन्तरं प्रणीतधातुकम्, एवं प्रणीतधातुकानन्तरं यावद्धीनधातुकम्, सासवानन्तरमनास्रवम्, अनास्रवानन्तरं 1. Ms. उत्पादन for उपादान. 2. ....2 "इति....न युज्यते" is omitted in Ch. 3. T. adds आश्रय. 4. Ms. का. 5. Ms. नं. 6. Ch. adds भेदात्.