________________ लक्षणसमुच्चयः समवधानं तद्यथा विज्ञानाख्यस्य हि हेतुफलस्येन्द्रियापरिभेदो' विषयाभासगमनं तज्ज्ञानं मनस्कारप्रत्युपस्थानं चेति / एवमन्यत्रापि योजितव्यम् / / इत्येवमेते चित्तविप्रयुक्ताः संस्काराणां धर्माणाम वस्थासु प्रज्ञपनात्सर्वे प्रज्ञप्तिसन्तो वेदितव्याः। तत्र कुशलाकुशला द्याचयापचयावस्थायामेकः / चित्तचैतसिकाप्रवृत्त्यवस्थायां त्रयः / स्थित्यवस्थायामेकः / सादृश्यावस्थायामेकः / लक्षणावस्थायां चत्वारः। व्यवहारावस्थायां त्रयः। अलाभावस्थायामेकः। हेतुफलावस्थायां शेषा इति / हेतुफलं पुनरत्र सर्वं संस्कृतं वेदितव्यम् / ततोऽन्यस्योत्पादाद्धेतुः / अन्यतस्तदुत्पादात् फल मिति / / ___$ 9A. [As. p. 12] स्कन्धादीनां समुदाचारे तद्वीजपरिपुष्टिर्वासनेत्युच्यते। सर्वबीजकं तेषामेव स्कन्धादीनामुत्पत्तिवीजयुक्तत्वात् / प्रालीयन्ते तस्मिन् धर्मा बीजतः, सत्त्वा वात्मग्राहेणेत्यालयवि[Ms. 13A]ज्ञानम्। पूर्वकर्मनि[Ch. 701B]मितत्वात् विपाकविज्ञानम् / पुनः पुनः प्रतिसंधिबन्धे -आत्मभावोपादाना-"दादानविज्ञा[T. 12 A]नम् / तत्पुनरेतच्चित्तमित्युच्यते, सर्वधर्मवासनाचित्तत्वात् / / 9B. तदेतदालयविज्ञानमस्तीति कथं विज्ञायते / यस्मात्तेन विना उपात्तमादि स्पष्टत्वं वीजं कर्म न युज्यते / कायिकोऽनुभवोऽचित्ते समापत्ती च्युतिस्तथा / / एतस्याश्चोद्दानगाथाया विभागस्तद्यथा विनिश्चयसंग्रहण्याम ष्टाभिराकारैरालयविज्ञानस्यास्तिता प्रत्येतव्या। तद्यथाऽन्तरेणालयविज्ञानं (i) आश्रयोपादानासंभवतः (ii) आदिप्रवृत्त्यसंभवतः (iii) स्पष्टप्रवृत्त्यसंभवतो (iv) बीजत्वासंभवतः (v) कर्मासंभवतः (vi) कायिकानुभवासंभवतो (vii) ऽचित्तकसमापत्त्यसंभवतो (viii) विज्ञानच्युत्यसंभवतश्च // 1. T. and Ch. add प्रत्ययः, Ch. इन्द्रिय undamaged. 3. T. and Ch. तज्जनक° for तज्ज्ञान'. 4. T. and Ch. constrain संस्काराणां धर्माणाम् in the Nom. pl. relat ed to चित्तविप्रयुक्ताः 5. T.omits अकुशल. 6. कुशलाद्या च is written in the margins of Ms. 7. ..."-7. “आत्म...दाना" is in the top margin. T. omits this portion. 8. Ms. चि. 9. Yogacarabhami (Ch. vol. 51). . 10. Ms. adds न.