________________ अभिधर्मसमुच्चयभाष्यम् (vi) तस्मिस्तस्मिन् सत्त्वनिकाय इति देवमनुष्यादिषु सत्त्वजातिषु / आत्मभावसदृशतायामित्येकजातीयतायाम् / (vii) वा ह्यस्यापि रूपस्य जातिमत्त्वे निकायसभागमात्रग्रहणं सत्त्वसंताने लक्षणप्रज्ञप्तिज्ञापनार्थम् / वाह्यं हि रूपं संवर्तविवर्त्तप्रभावितमा ध्यात्मिकास्तु जातिजरादिप्रभाविता इति / (x) प्रबन्धविनाशो मरणं वेदितव्यम् / एते च. जात्यादयो न प्रतिक्षणं वेदितव्या: किंतर्हि प्रबन्धावस्थास्विति / (xi) [Ch. 700C] स्वभावाधिवचनं चक्षः श्रोत्रं देवो मनुष्य इत्येवमादि / (xii) विशेषाधिवचनं सर्वसंस्कारा अनित्या: सर्वसत्त्वा मरिष्यन्तीत्येवमादि / (xiii) तदुभयाश्रयेष्विति स्वभावविशेषाधिवचनाश्रयेष्वक्षरेषु अ इ उ इत्येवमा दषु / एतावच्च सर्वं यदुत स्वभावो वि[Ms.12A] शेषस्तदुभयव्यवहारश्च, तत्सर्वमेभिरनुव्यवह्रियत इति / अत एते नामपदव्यञ्जनकाया व्यवस्थापिताः / पर्यायाक्षरणतामुपादायेति यथा चक्षुश्चक्षुरित्येतस्मात्पर्यायादन्येष्वपि नेत्राक्षिनयनलोचनादिषु पर्यायान्तरेषु क्षरति, [T. 11 A] तैरपि तत्संज्ञानात् / नैवं अ' इत्येतदक्षरं अ4 इत्येतं पर्यायं मुक्त्वा पर्यायान्तरेण शक्यते ज्ञापयितुम्, अत: पर्यायाक्षरणादक्षराणि / क्षरणं पुनर्गमनं वेदितव्यम् // . (xv) प्रबन्धानुपच्छेदे प्रवृत्तिव्यवस्थानमेकस्मिन् क्षणे व्यवच्छिन्न वा तदुपचाराभावात्। (xvi) हेतुफलनानात्वमिष्टस्य फलस्य सुचरितमनिष्टस्य दुश्चरितमित्येवमादि / फलानां पृथक् पृथगन्योन्यहेतुकत्वम्। (xvii) हेतुफलसा'रूप्यमन्यत्वेऽपि यद्यस्य फलं युज्यते। तद्यथा दानस्य भोगसंपदित्येवमादि / (xix) एककस्यैव प्रवृत्तिरयुगपत्प्रवृत्तिर्वेदितव्या। [Ch. 701A] (xx) हेतुफलस्य प्रबन्धेन प्रवृत्तौ सत्यां यत्तत्र हेतुफलमुत्पन्ननिरुद्धं सोऽतीतः काल इति प्रज्ञप्यते, यदनुत्पन्न सोऽनागतः कालः, यदुत्पन्नानिरुद्धं स प्रत्युत्पन्नः काल इति / (xxi) हेतुफलस्य दिग्व्या[Ms. 12B]प्तौ देशोपचारः। रूपसंगृहीतं चात्र हेतुफलं वेदितव्यमरूपिणां दिग्व्यापनसामर्थ्याभावात् / (xxii) प्रत्येकशो भेदे संख्येत्यभिन्नकात्मकत्वे द्वित्रिसंख्या[T. 11B]द्यनुपपत्तेः। (xxiii) हेतुफल प्रत्ययानां 1. Ms. म. 2. T. and Ch. add अक्षरेषु. 3. T. adds ई, Ch. adds इ. 4. T. adds ई, Ch. adds इ. 5. T. and Ch. add हेतुः. 6. T. and Ch. add फलस्य हेतुः. 7. AS. 377deg for #ro. 8. T. adds. फलं. 9. T. expounds °फलस्य.