________________ लक्षणसमुच्चयः पर्येषणाकारा मनसोऽभिजल्पना वितर्कः (Liii) प्रत्यवेक्षणाकारा 1“मनसोऽभिजल्पनाऽनु-विचार इति / / [Ch. 700A] तावेव वितर्कविचारौ संवध्येते, औदारिकसूक्ष्मव्यवस्थानादनयोः / / तद्यथाऽलोभस्य लोभप्रहाणम्, श्रद्धा [Ms. 11A]-या आश्रद्धयप्रहाणम् / रागप्रतिपक्षो वैराग्यम्, तस्य परिपन्थकरणम्, तस्य तेन तदुत्पत्तावन्तरायकरणात् / एवं क्रोधादीनामप्युपक्लेशानां मैत्र्याद्यात्मीय प्रतिपक्षान्तरायकरणं वेदितव्यम् // 2 58 B. चित्तविप्रयुक्तानां संस्काराणामधिष्ठानतः स्वभावतः प्रज्ञप्तितश्च निर्देशो वेदितव्यः / 4-असंज्ञिसमापत्तिनिरोधसमापत्ती भूमितोऽपि निःसरणविहारसंज्ञापूर्वकाभ्यां मनस्काराभ्यामपि निदिष्टे / आसंज्ञिकं मनस्कारवज्यै रेभिरेव / शेषा अधिष्ठानादिभिस्त्रिभिरेव-4 / ___तत्र (i) कुशलाकुशलानां धर्माणामित्यधिष्ठान निर्देशः / प्राचयापचय इति स्वभावनिर्देशः / तथा ह्याचये ऽधिमात्रैः श्रद्धादिभिः समन्वा T. 10 A] गत इत्युच्यते। अपचये सति मृदुभिरिति / प्राप्तिः प्रतिलम्भः समागम इति प्रज्ञप्तिरिति प्रज्ञप्तिनिर्देशः / एवमन्येष्वपि यथायोगं योजयितव्यम् / / (ii) [Ch. 700 B] शुभकृत्स्नवीतरागस्येति तृतीयध्यानवीतरागस्य / उपर्यवीतरागस्येति चतुर्थध्यानावीतरागस्य / निःसरणसंज्ञापूर्वकेणेति मोक्षसंज्ञापूर्वकेण / अस्थावराणामिति प्रवृत्तिविज्ञानसङ्ग्रहीतानाम् / निरोध इति समापत्तिचित्तकृतः कालान्तरमस्थावरचित्तचैत्तसमुदाचारनिरोधी आश्रयस्यावस्थाविशेषो निरुध्यतेऽनेनेति कृत्वा / (ii) निरोधसमापत्तावुपर्यवीतरागस्येत्यवचनं भवाग्रवीतरागस्याहतोऽपि तत्संभवात् / [As. P. 11] तदेकत्यानां च स्थावराणामिति क्लिष्टमनःसंगृहीतानाम् / एते" [Ms. 11B] च समापत्ती भूमितः मनस्कारतोऽधिष्ठानत: स्वभावतः प्रज्ञप्तितश्च निर्दिष्टे / (iv) प्रासंज्ञिकं मनस्कारवर्जेरेभिरेव / शेषा अधिष्ठानादिभिस्त्रिभिरेव - / / / . (v) निकायसभाग एकजन्मिकः स्कन्धसंतानः / स्थितिकालनियम इयन्तं कालमनेनास्मिन् निकायसभागेऽवस्थातव्यं वर्षशतं वर्षसहस्रं वेति [T. 10 B] कर्मकृतः सामर्थ्य विशेषः / 1....1. "मनसो..." is dropped in T. 2... 2. "तावेव 'वेदितव्यम्' is dropped in T. Ch. ASV(T.) has this portion. 3. Ch. and ASV (T.) omit आत्मीय. 4. ...-4 "असंज्ञि...स्त्रिभिरेव" is dropped in T. 5. T. and Ch. add अव्याकृत 6. T. and Ch. add सति. 7. ...7 "एते.... स्त्रिभिरेव // " is dropped in Ch.