________________ अभिधर्मसमुच्चयभाष्यम् . पुनर्भवोत्पत्तिर्वेदि[Ms. 7B]तव्या। (xxiii) मिथ्यानिश्चर्यविपरीतं ज्ञानम् / विचिकित्सा संशयः / संक्लेशोत्पत्तिः रागादिक्लेशसमुदाचारः / तत्संनिश्रयदानं मूढस्य सर्वक्लेशप्रवृत्तेरिति / (xxiv) रत्नेषु विमतिर्गिसत्ये निरोधसत्ये च यथायोगम् / तया कुशलपक्षेप्रवृत्तिरलब्धनिश्चयस्यानारम्भात् // (xxv-xxix) 1. मध्यमा प्रतिपच्छाश्वतोच्छेदग्राहजितं प्रतीत्यसमुत्पाद.. ज्ञानम् / शीलवतं कुदृष्टिपूर्वकं वेदितव्यम। श्रमवैफल्यं तेनानिर्याणात् / नास्ति दत्तं नास्तीष्टं नास्ति कृतं नास्ति सुचरितं नास्ति दुश्चरितमित्ययं हेत्वपवादः / नास्ति दुश्चरितसुचरितानां [Ch. 698B] कर्मणां फलविपाक इति फलापवादः / नास्त्ययं लोको नास्ति परलोको नास्ति माता नास्ति पिता नास्ति सत्त्व उपपादुक इति क्रियापवादः, लोकान्तरगमनागमनक्रियाया वीजाधानक्रियायाः प्रतिसंधिबन्धक्रियायाश्चा[Ms. 8 A]पवादात् / न सन्ति लोकेऽर्हन्त इत्येवमादि सद्वस्तुनाशनम्। [T. 7B] तदन्यद्यत् किंचिद्विपरीतदर्शनं तन्मिथ्या परि कल्पनं वेदितव्यम् / कुशलमूलसमुच्छेदो विशिष्टाया एव मिथ्यादृष्टेन सर्वस्याः। .. 2. पञ्चस्कन्धात्मके ज्ञेये आत्मात्मीयस्वभावसमारोपिका सत्कायदृष्टिः / आत्मनित्यानित्यविशेषसमारोपिकाऽन्तग्राहदृष्टिः। कुदृष्टावग्रता समारोपको दृष्टिपरामर्शः। तत्रैव शुद्धि समासेपक: शीलव्रतपरामर्शः। एका यद्भूयसेति मिथ्याविकल्पिका या नावश्यमपवादिकत्वात् / [As. P. 8] लक्षणतो द्वाभ्यामन्तग्राहमिथ्यादृष्टिभ्याम्, सपरिवारतः सर्वाभ्यः / . 3. (a) रूपादयो नात्मा, तद्विलक्षणत्वात् न हि ते आत्मलक्षणा इति / (b) न तेष्वात्मा, अनित्यतादोषात् / न ह्याश्रयाभावे आश्रितं भवतीति / (c) न रूपवानात्मा, अस्वातन्त्र्यदोषप्रसङ्गात् / (d) न तेभ्योऽन्यत्रात्मा, निर्देहतादोषात् / न हि विना देहेना[Ms. 8B]त्मपरिकल्प उपलभ्यत इति / अस्वा. तन्त्र्यतादोषः तेष्ववशवर्तनात् / [Ch. 698 C] (e) अथैवंविधमात्मानं 1. Ms. श्रि. 2. T. Ch. सत्येषु for रत्नेषु. Cf. विचिकित्सा कर्मफलसत्यरत्नेषु विमतिः / Trimsika p. 29. 3. T. अव्यवसायात्. 4. T. omits कर्मणां. 5. T. तत् सर्व मिथ्या. 6. AS. (G) वि for परि. 7. T. अग्रादि for अग्रता. 8. T. adds आदि. 9. Ms. adds here रूपवेदनासंज्ञासंस्कारविज्ञानवन्तमात्मानं समनुपश्यतीति /