________________ अभिधर्मसमुच्चयभाष्यम् अप्पृथवीसंसर्गात्पिच्छलम्। विश्रामो बलमूर्जा च धातुसाम्यात् / ऊर्जा पुनर्वैशारा वेदितव्यम् / तृप्तिरुभयथा। शेषा जिघत्सादयो धातुवैषम्याद्वेदितव्याः।। $ 5F. प्राभिसाक्षेपिकं परमाणुरूपम् / प्राभ्यवकाशिकं तदेव यथोक्तं तदन्यप्रतिवारकस्प्रष्टव्यरहितम्। [Ch. 696 C] सामादानिकमविज्ञप्तिरूपम् / परिकल्पितं प्रतिबिम्बरूपम् / वैभूत्विकं विमोक्षध्यायिगोचरं यद्रूपम् / 66. वेदनास्कन्धव्यवस्थानमाश्रयतः स्वभावत आश्रयसंकलनतः संक्लेशव्यवदानतश्च / तत्र रूपाश्रयसंकलनतः कायिकोवेदनाव्यवस्थानम् / अरूप्याश्रयसंकलनतश्चैतसि कोवेदनाव्यवस्थानम् / संक्लेशतः सामिषादीनाम्, व्यवदानतो [As. P. 5] निरामिषादीनां व्यवस्थानं वेदितव्यम्। तत्तृष्णावियुक्त ति विसंयुक्ता विसंयोग्यानुकूला च वेदितव्या // 67. अव्यवहारकुशलस्याशिक्षित [Ms. 5B] भाषतया रूपे संज्ञा भवति न तु रूपमिति / तस्मादनिमित्तसंज्ञेत्युच्यते / अनिमित्तधातुसमापन्नस्य रूपादिसर्वनिमित्ता[T. 5B]पगतेऽनिमित्त निर्वाणे संज्ञाऽनिमित्तसंज्ञा। भवाग्रसमापन्न[Ch. 697 A.]स्या पटुत्वेनालंबनानिमित्तीकरणादनिमित्तसंज्ञा / परीत्तः कामधातुः निकृष्ट त्वात् / महद्गतो रूपधातुस्तत उत्कृष्टत्वात् / अप्रमाणे आकाशविज्ञानानन्त्यायतनेऽपर्यन्तत्वात् / तस्मात्तदालंबनाः संज्ञाः परीत्तादिसंज्ञा : वेदितव्याः / 58. वेदनासंज्ञावानां सर्वेषां चैतसिकानां चित्तविप्रयुक्तानां च संस्कारस्कन्धलक्षणत्वे चेतनामात्रस्येव तन्निर्दशे ग्रहणं तत्पूर्वकत्वादितरेषामिति कारणज्ञापनार्थमाह-यया कुशलत्वाय चेतयत इत्येवमादि / तत्र कुशला वक्ष्यमाणाः श्रद्धादयः। संक्लेशा रागादयः क्लेशोप[Ms. 6A]क्लेशाः। अवस्थाभेदतः चेतनाप्रेरितसंस्कारावस्थासु प्रज्ञप्ता: चित्तविप्रयुक्ताः संस्काराः / / 68A. चेतनादीनां चैतसिकानां लक्षणतः कर्मतश्च निर्देशो वेदितव्यः / तत्र (i) चेतनायाः [As. P. 6] चित्ताभिसंस्कारो मनस्कर्मेति लक्षणनिर्देशः / कुशलाकुशलाव्याकृतेषु चित्तप्रेरणकमिकेति कर्मनिर्देशः / तथाहि [T. 6A] 1. Ms. आ. 2. Ms. उज्ज. 3. Ms. °पने for °पम्. 4. Ms. स. 5, T. and Ch. add संज्ञा, 6. Ms. कृ for कृ. 7. Ms. व्या. 8. Ms. चै.