________________ अभिधर्मसमुच्चयभाष्यम् विज्ञानानां पुनरुपभोगलक्षण[T. 3A]धारणत्वेन धातुत्वं वेदितव्यम् / ' यथाऽतीतप्रत्युत्पन्नाः चक्षुरादय उपभोगलक्षणधारका नै वमनागताः-२॥ . 52C. आयद्वारमात्रत्वादिन्द्रियार्थमात्रग्रहणेन द्वादशैवायतनानि व्यवस्थापितानि, न तूपभोगलक्षणं विज्ञानषट्कमिति / / 63. उपादानं छन्दो रागश्च / तत्र छन्दोऽभिलाषः, रागोऽध्यवसानम् / . छन्देनानागतमात्मभावमभिलाषमुखेनोपादत्ते, येनानागतान् स्कन्धानभिनिवर्तयति / रागेन वर्तमानमात्मभावमध्यवसानमुखेनोपादत्ते, येन वर्तमानान् स्कन्धान परित्यजति / तस्मादेतदेव द्वयमुपादानमित्युच्यते। तत्र स्कन्धनिर्देश इति / उपादानेन युक्तास्तस्मात्सोपादानधर्मा इति वेदितव्यम् / / .54 A. (i) स्पर्शन रूपाणामन्यथीभावो वेदितव्यः / या देशे इत्यभि.. मुखप्रदेशे। इदं चेदं चेत्यस्थिशंकला[Ms.3A]दिकं ज्ञेयवस्तुसभागं प्रतिबिम्बम् / एवं चैवं चेति वर्णसंस्थानभेदै: चित्रीकारतेति तथासंज्ञा / (ii) [Ch. 695C] शुभानां कर्मणां सुखोऽनुभवः फलविपाकः। अशुभानां दु:खः / उभयेषामदुःखासुखः। तथाहि / शुभानामशुभानां वा विपाक आलयवि[T. 3B] ज्ञानं नित्यमुपेक्षयैव संप्रयुक्तं भवति / सैव चात्रोपेक्षा विपाकः / सुखदुःखयोस्तु विपाकजत्वाद्विपाकोपचारः / (iii) दृष्टश्रुततमविज्ञाताननिति दष्टं यच्चक्षुषानुभूतम्, श्रुतं यच्छ्रोत्रेणानुभूतम्, मतं यत्स्वयमभ्यूहितमेवं चैवं च भवितव्यमिति, विज्ञातं यत्प्रत्यात्ममनुभूतमिति / व्यवहरतीत्यभिलापःप्राप[य]तीत्यर्थः / / (iv) नानावस्थासु चेति सुखदुःखाद्यासु / / / 64B. (i) [As. p. 3] येन चक्षुषा रूपाणि दृष्टवानित्यतीतविज्ञानोपभोगधारकत्वेन धातुत्वं दर्शयति / प[Ms. 3B.]श्यतीति वर्तमानविज्ञानोपभोगधारकत्वेन / यच्च तस्य चक्षुषो बीजमुपचितमालयविज्ञानं ,यत आयत्यां चक्षु. निर्वतिष्यते, वैपाक्यं च यतो निर्वृत्तम्, तदपि द्विविधं बीजं चक्षुर्वातुरित्युच्यते, चक्षुषो हेतुत्वात्। यच्चक्षुर्धातोः रूपे आधिपत्यमिति रूपी न्द्रियाधिपत्येन बाह्यविषयनिर्वर्तनात् / ' 1. ... 2. is in the top margin of Ms. This portion is not in T. In Ch. this portion is connected with Sec. 2 C. but ASV (T) support our reading. 2. Ch. and Asv (T). drop न. 3. T. omits this fullstop. 4. T. Sec. Ch द.. 5. Ms. ज्ञानः for ज्ञा. 6. मिति रूपी is in the top margin of Ms. T. omits इति. 7. T. adds स्वाश्रयालंबनभेदी /