________________ अभिधर्मसमुच्चयभाष्यम् __ [I (1) ] [लक्षणसमुच्चयो नाम प्रथमः समुच्चयः] [Ms. 1 B] ओं नमो रत्नत्रयाय / $ 1. [T..1B, Ch. 695 A] किमर्थमिदं शास्त्रमारब्धम् / स्कन्धा. दोनारभ्य कति कस्मादित्येवमादिषु चिन्ता[T. 2 A] स्थानेषु कौशल्यकरणार्थम् / तथाह्यनेन कौशल्येन द्विविधोऽनुशंसो लभ्यते-मनस्कारानुशंसः सांकथ्यविनिश्चयानुशंसश्च / तत्र (i) मनस्कारानुशंसः शमथानुकूल्याद्विपश्यनावृद्धयानुकूल्याच्च वेदितव्यः। शमथानुकूल्यं पुनरेषु स्थानेषु कृतकौशलस्य निःसंदेहतया यथेष्टमालंबने ऐ काग्रंचयोगेन सुखं चित्तसमा [T. 2B.]धानतः। विपश्यनावृद्धयानुकूल्यं वहुभिः प्रकारैः ज्ञेयपरीक्षया प्रज्ञाप्रकर्षगमनतः / (ii) सांकथ्यविनिश्चयानुशंस एषु स्थानेषु कुश[Ms. 2 A]लस्य सर्वप्रश्नव्याकरणशक्तियोगाद्वैशारद्यप्रतिलभतो द्रष्टव्यः / / 2A. [As. P.1] पञ्चाकारात्मवस्तूद्भावनतामुपादायेत्यत्र चतुराकारमात्मनो वस्त्वित्यात्मवस्तु / पञ्चमं त्वात्मलक्षणमेव वस्त्वित्यात्मवस्त्विति वेदितव्यम्। सपरिग्रहदेहग्रहणेन बाह्यस्याध्यात्मिकस्य च रूपस्कन्धस्य ग्रहणं वेदितव्यम् / वेदनादीनामुपभोगादित्वं तल्लक्षणनिर्देशे ज्ञापयिष्यते / [As. P. 2] तदाश्रयात्मस्ववस्तु विज्ञानम्, तेषां सपरिग्रहदेहादीनामाश्रयमात्मलक्षणं वस्त्वित्यर्थः / तथाहि लोके प्रायेण [Ch. 695B] विज्ञाने आत्मग्राहः, शेषेष्वात्मीयग्राह इति / / 62B. देहपरिग्रहाभ्यामिति चक्षु [रादी] न्द्रियषट्केन रूपादिविषयषटकेन च / षडाकारोऽतीतो वर्तमानश्चोपभोगो विज्ञानषट्कम्, तस्य धारणमाश्रयालंबनभावतः / इत्येवं तद्धा[Ms. 2B] रणत्वेन द्वादशानामिन्द्रियविषयाणां धातुत्वम् / 1. T. Chapter I. Ch. chapter I. "मूलवस्तुनि त्रिधर्मपरिच्छेदः". Ms. has no. chapter division. 2. Ms. ए. 3. च is in the top margin of Ms. 4. T. & Ch. विज्ञानस्कन्धे.