SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 136 अभिधर्मसमुच्चयभाष्यम् धर्मनेत्री निस्रित्या[Ch. 763C]परिपक्वाः सत्त्वाः [T. 125A] परिपच्यन्ते परिपक्वाश्च विमुच्यन्ते / / $ 190. विशिष्टमार्ग'लाभे होनमार्गविहानिस्तद्यथा फलसंगृहीतमार्गलाभे प्रतिपन्नकमार्गो विहीन इत्युच्यते, पुनरसंमुखीकरणात / सकलप्रहाणं च सा[Ms. 129A]क्षात्करोति फलप्राप्तिकाले तु तद्विपक्षजातीयक्लेशप्रतिपक्षदौष्ठल्याशेषप्रहाणादाश्रयपरिवत्तिविशेषलाभतः समवसर्गविहान्या विजहाती त्य]त्यन्तासमुदाचारं विजहा[तीत्यर्थः / नो तु बोधिसत्त्वस्तथा विजहाति, सर्वसत्त्वपरिनिर्वाणाभिप्रायपूर्वकत्वात्तन्मार्गस्य / अत एव बोधिसत्त्वा अक्षयकुशलमूला अक्षयगुणा इत्युच्यन्ते तद्यथाऽक्षमिति [सूत्रे] ऽक्षयतानिर्दिष्टेति / / .8 191. शाश्वतो लोक अशाश्वत इत्येवमादिषु प्रश्नेष्वव्याकृतवस्तुव्यवस्थानमनोपसंहितत्वेनायोनिशत्वात् / तेषां तेषां प्रश्नानां कीदृशः पुनः प्रश्नोऽर्थोपसंहितः / तद्यथा चत्वार्यसत्यान्यारभ्य यः प्रश्नः / तथाहि सहेतुफलसंक्लेशव्यवदानचिन्तान्तर्भूत इति / $ 192. बोधिसत्त्वस्य न्यामावक्रान्तावपि श्रोतापन्नत्वाव्यवस्थानम , अप्रतिष्ठितमार्गप्रति लम्भात् प्रतिश्रोतःप्रतिपत्त्यपरिनिष्पन्नतामुपादाय / / 5193. [Ch. 125B] ज्ञे[T. 125B]यं षड्विधं-भ्रान्तिर्यावदभ्रान्तिनिष्यन्दश्च / तत्र (i) भ्रान्ति ह्यग्राहकाभिनिवेशः / (ii) भ्रान्त्याश्रयो यस्मिनार्यज्ञा[Ms. 129B]नगोचरे संस्कारनिमित्तमात्रेऽभूतपरिकल्पात्मके सति बालानां सोऽभिनिवेशः प्रवर्तते / (iii) अभ्रान्त्याश्रयस्तथता, निर्विकल्पस्य ज्ञानस्य तदधिष्ठानत्वात् / (iv) भ्रान्त्यभ्रान्तिलोकोत्तरज्ञानानुकूला: श्रुतमय्या दयः कुशला धर्माः, ज्ञेयविकल्पनान्नि विकल्पज्ञानानुकूल्याच्च / (v) अनान्तिनिर्विकल्पज्ञानम् / (vi) अभ्रान्तिनिष्यन्द आर्यमार्गपृष्ठलब्धाः कुशला धर्माः / / $ 194. उपायकौशल्यं [As. p. 102] पुनश्चतुर्विधम / (i) सत्त्वपरिपाककौशल्यं चत्वारि संग्रहवस्तूनि, तैः संगृह्य कुशलेषु धर्मेषु नियोजनात् / (ii) 1. T. आर्यमार्ग. 2. Ms. adds two syllables which read like सर्ग.. 3. Ms म for सूत्र]. 4. Ms. °ष्ट इति for °ष्टा+इति. 5. Ms. ना. 6. Ms. द्म for दभ्र. 7. Ms. न. 8. Ms. ल. 9. Ms. appears ल्या० for प्या T. confirmes our emendation. Ch. मत्या. 10. Ms. नि.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy