________________ 132 अभिधर्मसमुच्चयभाष्यम् चण्डया गवा, चण्डेन कुक्कुरेण / गहनं वा कण्टकवाट वा मृद्नाति / अलगद वा पदाभ्यां समाक्रामति / तद्रूपं वाऽगारं प्रविशति यत्रैनं मातृग्रामोऽयोगविहितेनोपनिमन्त्रयति / अरण्ये वा पुनमार्ग हित्वा कुमार्गेण गच्छति / चोरैर्वा तस्करैर्वा साधं समागच्छति सिंहैयाघ्रर्वाप[Ms. 125 A]रव कैर्वा इत्येवं भागीयं स्खलितमहतस्तथागतस्य सर्वेण सर्वं नास्ति / (ii) पुनरयमहन्न कदाऽरण्ये प्रवणेsन्वाहिण्डन्मार्गादपनश्यः, शून्यागारं प्रविश्य शब्दमुदीरयति, घोषमनुश्रावयति, महारुतं रवति / वासना[T. 121 B]दोषं वाऽऽगम्य क्लिष्टं महाहासं हसति, दन्तविदर्शकं संचग्धितमुपदर्शयति / इत्येवंभागीयमहतो रवितं तथागतस्य सर्वेण सर्वं नास्ति / (iii) नास्ति तथागतस्य मुषिता स्मृतिरक्लिष्टचिरकृतचिरभाषितानुस्मरणतामुपादाय / (iv) [Ch. 762 A] पुनरपरमहन्. समापन्नः समाहितो भवति व्युत्थितोऽसमाहितः। तथागतस्य तु सर्वावस्थं नास्त्यसमाहितं चित्तम् / (v) पुनरपरमहन्ने कान्तेनोपधा च प्रतिक्रमणसंज्ञो भवति निरुपधिके च निर्वाणे शान्तसंजी। तथागतस्य उपधौ निर्वाणे च नानात्वसंज्ञा नास्ति, 4-परमोपेक्षाविहारितामुपादाय-4 / (vi) पुनरपरमहन्नप्रतिसंख्याय सत्त्वार्थक्रियामध्युपेक्षते / तथागतस्य त्वियमेवंभागीयाऽप्रतिसंख्यायोपेक्षा नास्ति / (vii.xii) पुनरपरमहन् ज्ञेयावरणविशुद्धिमारभ्याप्राप्तपरिहाण्या छन्देना[Ms. 125 B]पि परिहीयते वीर्यणापि स्मृत्या समाधिना प्रज्ञया विमुक्त्या विमुक्तिज्ञानदर्शनेना पिपरिहीयते / इतीयं सप्ताकारा परिहाणिस्तथागतस्य नास्ति / (xiii-xv) पुनरपरमहन्नेकदा कुशले कायकर्मणि प्रवर्तते, एकदाऽव्याकृते / यथा कायकर्मण्येवं वाक्कर्मणि मनस्कर्मणि च। तथागतस्य त्रयाणामपि कर्मणां ज्ञान[T. 122 A]पूर्वंगमत्वाज्ज्ञानानुपरिवर्तित्वाच्च नास्त्यव्याकृतं कर्म तत्र ज्ञानसमुत्थापनतामुपादाय ज्ञानपूर्वंगमम् / ज्ञानसहचरतामुपादाय ज्ञानानुपरिवति / (xvi-xviii) पुनरपरमर्हन् त्रैयध्विक ज्ञेयवस्तु न चाभोगमात्रा प्रतिपद्यते येनास्य सक्त ज्ञानदर्शनं भवति / न च सर्व प्रतिपद्यते येनास्य प्रतिहतं ज्ञानदर्शनं भवति / तथागतस्त्रैयध्विकमाभोगमात्रात् सर्वं वस्तु प्रतिपद्यते। तस्मादेते अष्टादशावेणिका बुद्धधर्मा इत्युच्यन्ते / तत्रैषामाद्याः षट् असाधारणकायवाङ्मनस्कर्मपरिशुद्धिसमृद्धौ समाध्यादयः / 1. Ms. आ. 2. Ms. वा. 3. Ms. व. 4-4. T. omits परमी°...... मुपाय, 5. T. & Ch. omit विमुक्तिज्ञानदर्शनेन, Hence they give the number as six and not seven as here. The number seven moreover makes the total of nineteen instead of eighteen, which is incongruous with the above enumeration of eighteen आवेणिकबुद्धधर्म. 6. T. ज्ञयवस्तु.