________________ प्राप्तिनिश्चयः 133 1-तत्र नास्ति स्खलितमित्ययं कायकर्मपरिशुद्धिमारभ्य / नास्ति रवितमित्ययं वाक्कर्मपरशुद्धिमारभ्य / तत्र नास्ति मुषितस्मृतिः-1 नास्त्यसमानितं चित्तं नास्ति नानात्वसंज्ञा नास्त्यप्रतिसंख्यायोपेक्षेत्येतच्चतुष्टयं मनस्कर्मपरिशुद्धिमधिकृत्य [Ms. 126 A] वेदितव्यम् / नास्ति छन्दपरिहाणिर्यावन्नास्ति विमुक्तिज्ञानदर्शनपरिहाणिरिति साश्रयाणां सफलानां तथागतेन्द्रियाणामप्राप्त्यपरिहाणिसमृद्धौ समाध्यादयः / तत्राश्रयश्छन्दः / फलं विमुक्तिविमुक्तिज्ञानदर्शनं च / इन्द्रियाणि वी[T. 122 B]र्यादीनि वेदितव्यानि / सर्वं कायकर्म वाक्कर्म मनस्कर्म ज्ञानपूर्वगमं ज्ञानानुवर्तीत्येते त्रयोऽसाधारणकर्मचारसमृद्धौ समाध्यादयः / अतोतेऽध्वन्यसङ्गमप्रतिहतं ज्ञानं यावत्प्रत्युत्पन्नेऽध्वनीत्येते त्रयोऽसाधारणज्ञानविहारसमृद्धौ समाध्यादयः // 6 170 [Ch. 762 B] स्कन्धधात्वायतनेषु सर्वाकारज्ञतासमृद्धाविति स्कन्धादीनां स्वभावविशेषलक्षणप्रभेदपर्यन्तज्ञाननिष्पत्तावित्यर्थः / 5171 तेषां पुनरभिनिर्हारो निश्रयतोऽभिनिरिकपुद्गलतोऽभिनिर्हारोपायतश्च परिदीपितः / अभिनिर्हारोपायः पुनर्यथाव्यवस्थानं मनस्कारबहुलीकारता यथादेशनं समा हितस्य [Ns. 126 B] चित्तस्य पुनःपुनस्तत्र धारणमित्यर्थः / तद्यथाऽप्रमाणान्यभिनिहर्तुकामो मंत्रीसहगतेन चित्तेनावरेणासपत्नेनेत्येवमादिका देशनां ध्यानसंनिश्रयेण भावयन् मनसिकुर्वन् बहुलीकरोति, एवमभिज्ञादीनभिनिहर्तुकाम एको भूत्वा बहुधा भवतीत्येवमादिकं व्यवस्थानं मनसिकुर्वन् बहुलीकरोतीति योजयितव्यम् / / 6172 त एतेऽप्रमाणादयो गुणा द्विप्रकाराः। (i) स्वकारित्रप्रत्युपस्थानाश्च यैरार्यो यथायोगं वि[T. 123 A]पक्षप्रहाणादिकं कर्म करोति, (ii) वहारिकाश्च यः परमप्रशान्तनिर्विकल्पज्ञानसंगृहीतैरनालंबनाप्रमाणादिभिर्दृष्टे धर्मे सुखं विहरति / / $ 173 तत्राप्रमाणे विपक्षं प्रजहा तीति यथाक्रमं व्यापादं विहिंसामरतिमनुनयप्रतिघौ च / एतानि च चत्वार्यप्रमाणान्यनुकम्पेत्युच्यते, एभिः सत्त्वार्थं प्रत्यनुगुणं प्रवर्तनात् / अतस्तैविहरमाणः सर्वसत्त्वेष्वनुकम्पाविहारितया पुण्यसंभारं परिपूरयति / अत एव सत्त्वपरिपाके च न परिखिद्य[Ms. 127 A]ते, सर्वसत्त्वानुकम्पित्वेन स्वात्मनिरपेक्षत्वात् // 1-1. "तत्र......स्मृति:' is in the top margin of Ms. 2. T. & Ch. विमुक्ति' for विमुक्तितादर्शनश'. 3. T. & Ch. add षट. 4. T. & Ch. omit विमुक्तिज्ञानदर्शनं च. 5, T. अभिनिरिनिश्रयतो. 6. Ms. ह. Cf. As (G). p. 37. . 7. Ms. adds च.