________________ प्राप्तिनिश्चयः 125 तथाहि शुभा[T. 114A]नि रूपाण्यपेक्ष्य तदन्येष्वशुभानीति भवत्यशुभानि वापेक्ष्य शुभानीति नानपेक्ष्यकजातीयानामेव दर्शने शुभाशुभताबुद्ध्यभावात् / तथाहि शुभेष्वप्यशभतानुगताऽशुभेष्वपि शुभता, शुभसंमतस्यापि त्वङ्मात्रस्य केशादिषट्त्रिंशदशुचिद्रव्यान्तर'भावादित्येवमन्योन्यं सर्वरूपाणि मिश्रयित्वा शुभतैकरसाका[Ms. 118A]रया संज्ञया विमुच्यते / तस्यैवं रूपादिवि मोक्षविभुत्वलाभिनः शुभाशुभनिर्माणावरणं च प्रहीयते तत्र च संक्लेशोत्पत्त्यावरणम् / कः पुननिर्माणे संक्लेश: / शुभरूपनिर्माणे आ भोगः, अशुभरूपनिर्माण प्रातिकूल्यमिति / (iv-vii) प्राकाशानन्त्यायतनादीनि चत्वार्यश्रावकस्य यान्यनाश्रवानुकूलानि शुद्धानि तानि विमोक्षकाख्यां लभन्ते, तदास्वादनविमोक्षणात् / ये ते शान्ता विमोक्षा अतिक्रम्य रूपाण्यारूप्यास्तेष्व' सक्तिः परिशुद्धिः / तस्या प्रावरणमारूप्यास्वादन मिति / (viii) संज्ञावेदयितनिरोधस्य निश्रयो नैवसंज्ञानासंज्ञायतनम्, आलंबनाकारसहाया न सन्ति 8-चित्त[T. 114B] चैतसिकानामभावात् / स्वभावस्तस्य-8 चित्तचैतसिकानां निरोधः। स च मोक्षानुसदशो विहारः, लोकोत्तरेण मार्गेण परिवृत्त्याश्रयस्यार्यश्रावकस्य पुनश्चित्तचैतसिकानामप्यप्रवृत्त्यवस्थायाः परमशान्तत्वात् क्लिष्टमनोऽसमुदाचाराच्च / एते चाष्टो विमोक्षा विहारा1० इत्युच्यन्ते, एभिरार्याणां विहरणात् / तत्रापि [Ch. 758C] 11बहुलमाभ्यां विमोक्षाम्यां विहरन्ति, तृतीयेनाष्टमेन च प्रधानत्वा[Ms. 118B]त् / अत एव चानयोः कायेन साक्षात्कृत्योपसंपद्य विहरतीति वचनं नान्येषु रूप्यरूपिविमोक्षावरणाशेषप्रहाणाद्यथाक्रमम् / तयोः संपूर्णाश्रयपरिवृत्तिसाक्षात्करणमुपादायेत्यपरः पर्यायः / / 6154 [As..p. 96] अष्टावभिभ्वायतनानि / तत्र (i) अध्यात्म रूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानि हीनप्रणीतानि, तानि खलु 1. Ms. रा. 2. T. & Ch. अधिo for ta. 3. T. अधि for. वि. 4. Ch. क्लेश for संक्लेश. 5. ib. 6. Ms. अ. - 7. Ms. श. 8-8. "चित्तचैत स्वभावस्तस्य" is in the bottom margin of Ms. 9. T. adds धर्माना. 10. T. & Ch. आर्यविहारा. 11. T. & eh. add भार्या : 12. Ms. adds अभावानभावः / तस्य चित्तचैतसिकानां. 13. Ms. ही,