________________ z lililil! 126 अभिधर्मसमुच्चयभाष्यम् रूपाण्यभिभूय जानात्यभिभूय पश्यति तथा च संज्ञी भवति / इदं प्रथममभिभ्वायतनम् / (ii) अध्यात्म रूपसंज्ञी बहिर्धा रूपाणि पश्यत्यधिमात्राणि सुवर्णदुर्वर्णानि विस्तरेण यावत्तया च संज्ञी [T. 115 A] भवति / इदं द्वितीयमभिभ्वायतनम् / इत्येते द्वे अभिभ्वायतने रूपी रूपाणि पश्यतीत्येतस्माद्विमोक्षादभिनिहियेते / (iii) अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि विस्तरेण यावत्तथासंझी च भवति / इदं तृतीयमभिभ्वायतनम्। (iv) अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यत्यधिमात्राणि यथातथासंज्ञी च भवति / इदं चतुर्थमभिभ्वायतनम्। इत्येते द्वे अभिभ्वायतने अध्यात्ममरूपसंज्ञी बहिर्धा रू[Ms. 119 A]पाणि पश्यतीत्येतस्माद्विमोक्षादभिनिहियेते। एवं कृत्वा द्वाभ्यां विमोक्षाभ्यां चत्वार्यभिभ्वायतनानि वेदितव्यानि। (v) अध्यात्म[म] रूपसंज्ञी बहिर्धा रूपाणि पश्यति नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि / तद्यथा उमकापुष्पं संपन्न वा वाराणसीयकं वस्त्रं नीलं नीलवर्णं नील निदर्शनं नीलनिर्भासमेवमेवाध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति नीलानि यावन्नी[T. 115 B]ल निर्भासानि तानि खलु रूपाण्यभिभूय जानात्याभिभूय पश्यति तथासंज्ञी च भवति / इदं पञ्चममभिभ्वायतनम् / (vi) अध्यात्ममरूपसंज्ञो' बहिर्धा रूपाणि पश्यति पीतानि यावत्पीतनिर्भासानि / तद्यथा कणिकारपुष्पं संपन्न वा वाराणसीयकं वस्त्रं पीतं पीतवर्णमिति विस्तरः / इदं षष्ठमभिभ्वायतनम्। (vii) अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति लोहितानि यावल्लोहितनिर्भासानि / तद्यथा बन्धुजीवकपुष्पं संपन्न वा वाराणसीयं वस्त्रं लोहितं लोहित [वर्ण] मिति विस्तरः ! इदं सप्तममभिभ्वायतनम्। (viii) अध्यात्ममरूपसंज्ञी वहिर्धा रूपाणि पश्यत्यवदा[ Ms. 119 B]तान्यवदातवर्णा[ T. 116 A ]न्यवदात निदर्शनान्यवदातनिर्भासानि। तद्यथा उषसि तारकाया वर्णं संपन्न वा वाराणसीयकं वस्त्रमवदातमवदातवर्णमवदातनिदर्शनमवदातनिर्भासमेवमेवाध्यात्ममरूपसंज्ञी वहिर्धा रूपाणि पश्यत्यवदातान्यवदातवर्णान्यवदातनिदर्शनान्यवदातनिर्भासानि, तानि खलु रूपाण्यभिभूय जानात्यभिभूय पश्यति [Ch. 759 A] तथासंज्ञी च भवति / इदमष्टममभिभ्वायतनम् / एतानि चत्वारि शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरतीत्येतस्माद्विमोक्षादभिनिह्रियते।। तत्र विमोक्षरालंबनमधिमुच्यते परीत्तादिकम्, अभिभ्वायतनस्त्वभिभवति, तदन्तर्धा नाद्यथेष्टं वा करणाद्वशवर्तमानतामुपादाय / तत्र परीत्तानि रूपाणि सत्त्वसंख्यातान्यल्पप्रमाणत्वात्। अधिमात्राण्यसत्त्वसंख्यातानि गृहविमानपर्वतादीनि 1. 2. 3. Ms. त. Ms. शि. Mvt. 1525& Sphuta p. 691 उशनस्तारका which means the Venus star (planet). Ms. adds म, 4.