________________ 124 अभिधर्मसमुच्चयभाष्यम् वेदितव्य उपद्रवादिपरित्राणात्। तत्र (a) उपद्रवपरित्राणं नगरप्रवेशादिभिरन्धादीनां चक्षुरादिप्रतिलम्भात् / (b) अनुपायपरि[. 113 A]त्राणं लौकिकसम्यग्दृष्टिप्रतिलम्भेन' सर्वकुदृष्टिविवेचनात् / (c) अपायपरित्राणं दर्शनमार्गोत्पादनेन दुर्गतिसमतिक्रमणात् (d) सत्कायपरित्राणमहत्त्वसाक्षात्क रणेन वैधातुकवि[Ms. 117 A]मोक्षणात्। (e) यान परित्राणं बोधिसत्त्वानां हीनयानविच्छन्दनादिति / / $ 151. वैशेषिकगुणा आर्यावर्भावनामार्गे वाऽभिनिह्रियन्तेऽशैक्षमार्गे वेत्यत एषां पृष्ठनिष्ठाभिसमयाभ्यां संग्रहो वेदितव्यः / ते पुनमत्र्यादयो यथासूत्रान्तरेषु निर्दिष्टाः श्रावकयाने महायाने च तथैव वेदितव्याः / तेषां चायं समासेन पञ्चभिराकारैर्यथायोगं लक्षणनिर्देशो वेदितव्य:- निश्रयत आलंबनत आकारतः स्वभावतः सहायतश्च // 5152 तत्र तावत् (i) मंत्र्या ध्यानं निश्रयः, सत्त्वा आलंबनम्, सुखेन संप्रयुज्येरन्नित्याकारः, [Ch. 758A] समाधिः प्रज्ञा च स्वभावः शमथविपश्यनासंगृहीतत्वात्सर्वगुणानाम्, चित्तचैतसिका: सहाया इत्येवं (ii-iv) करुणादिषु यथायोगं योजयितव्यम् / (iv) [T. 113B, As. p. 95] उपेक्षया सुखादिषु सत्त्वेष्वनुनयाद्यभ्युपेक्षणमहो वत संक्लेशाद्विमुच्ये रन्नित्ययमाकारो वेदितव्यः। स च हिताशयविहार इत्युच्यते / / 6153. अष्टौ विमोक्षाः। (i) रूपी रूपाणि पश्यत्ययं प्रथमो विमोक्ष इति विस्तरः। तत्र कथं रूपी[Ms. 11LA]त्युच्यते / स्वात्मन्या रूप्यसमापत्तिसंनिश्रयेण रूपसंज्ञाया अभिभावनाद्रूपसंज्ञासंनिवेशनाद्वा द्रष्टव्यानि रूपसंज्ञासंमुखीकरणादित्यर्थः / कथं रूपाणि पश्यतीत्युच्यते / सुवर्णदुर्वर्णादीनि रूपाण्यधिमुच्य दर्शनात् / कथं विमोक्ष इत्युच्यते / विमुच्यतेऽनेन निर्माणावरणादिति कृत्वा / (ii) अध्यात्ममरूपसंज्ञारूप्य समापत्तिसंनिश्रयेण द्रष्टरि स्वात्मनि रूपसंज्ञाविभावनादरूपसंज्ञासंनिवेशनाद्वा द्रष्टरि नामसंज्ञासंमुखीकरणादित्यर्थः। शेषं पूर्ववत् / (iii) शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरत, [Ch. 758B]शुभाशुभेषु रूपेष्वन्योन्यापेक्षासंज्ञामन्योन्यानुगमसंज्ञां च निश्रित्या[न्यो न्यकरससंज्ञालाभात् / 1. Ms. वचनेन for लम्भेन, 2. Ms. का. 3. T. होनयान. 4. Ms. च. 5. T. reads संगृहीतत्वात् सर्वगुणानां चित्तचैतसिका: 6. Ms. पा. 7. Ms. ल्या for स्मन्या. 8. Ms. प.