________________ प्राप्तिनिश्चयः 123 पायकौशल्यार्थं नो तु साक्षाक्रिया सत्त्वापेक्षया हीनयानानिर्याणात् / अपि खलु तत्प्रथमतो बोधिसत्त्वस्य भूमिप्रवेशाऽभिसमय इत्युच्यते / / $ 150. एतं चाभिसमय निश्रित्योच्यते--श्रावकाभिसमयाद्बोधिसत्त्वाभिसमयस्य कः प्रतिविशेषः / (i) प्रालंबनविशेषतो वैपुल्यालंबनत्वात् / (ii) उपस्तम्भविशेषतः परिपूर्णमहाकल्पासंख्येयमहा पुण्यज्ञानसंभारपरिपूरणात् / (iii) प्रतिवेधविशेषतः पुद्गलधर्मनरात्म्याधिपतेयधर्मप्रयोगवेधतो लोकोत्तरेण ज्ञानेन तदुभयप्रतिवेधात् / (iv) अभ्युपगमविशेषतः स्वात्मसमतया सर्वसत्त्वा[T. 112 A]भ्युपगमात् / (v) निर्याणविशेषतो दशभिर्भमिभिनिर्याणात्। (vi) परिग्रहविशेषतोऽप्रतिष्ठितनिर्वाणपरिग्रहणा[Ms. 116 A]त् / (vii, viii) [Ch. 757 Bj प्रतिष्ठापरिवारविशेषतो बुद्धक्षत्रपरिशीधनाविनेयजनोपग्रहणाच्च / (ix) अभिजन्मविशेषतः पितृवंशसंधारकौरसपुत्रलक्षणत्वात् / (x) जन्मविशेषतः परिषन्मण्डलेषूपपन्नः / (xi) फलविशेषश्च पुनः (1) [प्राश्रय]परिवृत्तिविशेषतः क्लिष्टाक्लिष्टसर्वप्रकार दौष्ठुल्यप्रहाणात्सर्वनिरुत्तरगुणाश्रयत्वेनाश्रयपरिवर्तनात् / (2) गुणसमद्धिविशेषतो बलवंशारद्यावेणिकबुद्धधर्माद्यपरिमितगुण निष्पत्तेः / (3) पञ्चाकारविशेषतो विशुद्धयादिविशेषात् / तत्र (a) विशुद्धि विशेषः सवासनक्लेशप्रहाणात् / (b) परिशुद्धिविशेषो बुद्धक्षेत्रपरिशोधनात् / (c) कायविशेषो धर्म: कायपरिनिष्पादनात् / (d) भोगविशेषः सदा बोधिसत्त्वैः सह पर्षन्मण्डलेषु विचित्रधर्मसंभोगात् / (e) [T. 112 B] कम विशेषो यथार्ह निर्माणः समन्तादन'न्तापर्यन्तेषु लोकधातुषु बुद्धकृत्यानुष्ठानादिति / (4) कायत्रयविशेषतः स्वभाविकसाम्भोगिकनर्माणिकायपरिनिष्पत्तिलाभात् / (5) निर्वाणविशेषतो [Ms. 116 B] निरुपधिशेषे निर्वाणधातौ सर्वसत्त्वहिताय सर्वगुणासमुच्छेदात् / (6) मिश्रोपमिश्रज्ञानशक्तिलाभविशेषतः सुत्रिशुद्धधर्मधात्वेकरसतया तदाश्रितासु सर्वाकारवरज्ञतासु प्रत्येकं सर्वबुद्धानां सामर्थ्यात् / (7) [Ch. 757 C] प्रावरणविशुद्धिविशेषतः सर्वक्लेशज्ञेयावरणप्रहाणात् / (8) मिश्रोपमिश्रकर्मक्रियाविशेषत एकैकसत्त्वविनयनं प्रति सर्वबुद्धाधिपत्यात् / (9) अभिसंबोधिनिर्वाणसंदर्शनोपायविशेषतो दशसु दिक्षु यथायोगं सर्वलोकधातुषु यावदपरान्तं पुनःपुनर्बुद्धोत्पादादिसंदर्शनेन सर्वविनेयजनपरिपाचनविमोचनात् / (10) पञ्चाकारपरित्राणविशेषतश्च 1. Ms. वा. 2. T. & Ch. lack महा. 3. Ms. कान्त° for लोत्त०. 4. T. & Ch. °न्नात्. 5. T. & Ch. add आश्रय, 6. Ms. वा. 7. T. lacks समन्ताद्.