________________ 122 अभिधर्मसमुच्चयभाष्यम् प्यकं भागं करोत्येक पिण्डमेकं पुञ्जमेकं राशि करोत्येकं कृत्वाऽतः प्रतिसंशिक्षते सर्वमेतदनित्यं सर्व दुःखमिति विस्तरः / द्वयोरेवाद्यन्तयोः फलयोः प्रज्ञाप्यते / तयोस्त्रैधातुकसर्वदर्शनभावनाप्रहातव्याशेषप्रहाणप्रभावितत्वाद्यथा [Ms. 114B]क्रमम् / मध्ययोस्तु न प्रज्ञाप्यते, तयोर्दष्टसत्यस्य कामावचराणामेव भावना. प्रहातव्यानां सावशेषनिरवशेषप्रहाणप्रभावितत्वात / सकृन्नाणिकं चाधिकृत्य विभङ्गसूत्रे स्रोतापन्नानन्तरमहद्व्यवस्थानं वेदितव्यम्। स दृष्टे धर्मे यद्याज्ञां नारागयति सर्वतो नि:शेषमवीतरागत्वात्प्रणिधानवशेन कामधातावुपपद्यते क्षिप्रपरिनिर्वाणार्थम् / / 5149 [Ch. 756C] अभिसमयव्यवस्थानं दविधम ! [As. p. 93] तत्र (i) धर्माभिसमयः सत्याधिपतेयेषु सूत्रादिषु धर्मेषु परतोघोषमधिपतिं कृत्वाधिमात्रस्याविमुक्तिप्रसादस्य पश्चिममोक्षभागीयसंगहीतस्य प्रतिलम्भः / तथाहि तदधिमुक्तिप्रसादप्रतिलम्भात्तानि सत्यानि धर्माभिसमयेनाभिसमितानीत्युच्यन्ते / (ii) अर्थाभिसमयस्तेष्वेव धर्मेषु योनिशोमनस्कार[T. I11 A]मधिपति कृत्वाऽधिमात्रायाः सत्येषु धर्मनिध्यानक्षान्ते[:] पश्चिमनिर्वेधभागीय संगही ता]याः प्रतिलम्भः / सा पुनर्धर्मनिध्यानक्षान्तिस्त्रिविधेन योनिशोमनस्कारेण प्रभाविता(a) अधिमात्रमदुना तज्जन्मकालेषष्मगतेष, (b) अधि[Ms. 115 A]मात्रमध्येन मूर्ध्वसु क्षान्तिषु च, (c) अधिमात्राधिमात्रेण लौकिकेष्वग्रधर्मेष्विति / (iii) तत्त्वाभिसमयो दर्शनमार्गः। तत्र पुनः सत्यव्यवस्थापनान्यभिसमयान्तिकानि संवतिज्ञानानि प्रतिलम्भतो लोकोत्तरज्ञानाधिपत्येन तदबीज पोषणान्न तु सम्मुखीकरोति षोडशानां दर्शनमार्गचित्तक्षणानां निरन्तरत्वेन लौकिकचित्तानव. काशात् / (iv) पृष्ठाभिसमयो दर्शनमार्गादूर्ध्वं सर्वभावनामार्गो लौकिको लोकोत्तरो वा। (v) रत्नाभिसमयः सम्यक्संबुद्धो बत भगवान्, स्वाख्यातोऽस्य धर्मविनयः, सुप्रतिपन्नः श्रावकसंघ इत्येवमवेत्य निश्चित्यार्यश्रावस्य बुद्धादिषु प्रसादः / (vi) असमुदाचाराभिसमयो [Ch. 757 A] यस्याकरणसंवरस्यार्यकान्तशीलसंगहोतस्य लाभात्तद्विपक्षनरकाद्यसमुदाचारं प्रत्येवं निश्चयः प्रवर्तते "क्षोणा मे नरकाः" ]T. 111 B] इत्येवमादिः सोऽसमृदाचाराभिसमयः। (vii) निष्ठाभिसमयः सर्वदौष्ठुल्यानां प्रतिप्रस्रब्धिरित्येवमादिर्यथा मार्गसत्ये निष्ठामार्गो निर्दिष्ट: / एत एव सप्ताभिसमयाः श्रावकाणां पर[Ms. 115 B]तोघोषमागम्य प्रतिलम्भतः (viii) श्रावकाभिसमय इत्युच्यते। (ix) [As. p. 94] परतोघोषमनागम्य प्रतिलम्भतः प्रत्येक [बुद्ध] भिसमय इति / (x) बोधिसत्त्वाभिसमय एषु सप्तस्वभिसमयेषु बोधिसत्त्वस्य या समुदागमक्षान्तिः श्रावकप्रत्येकबुद्धविनयो 1. 2. 3. Ms. adds त्व. Ms. गाभी° for मागी. Ms. य.